________________
इयं।
'आमलक|प्पा' वर्ण
नम्
॥३॥
[१] 'ते णं काले णं ते णं समए णं आमलकप्पा नामं नयरी होत्था-रिद्ध-स्थिमिय-समिद्धा जाव [पंमुइयजण-जाणवया आइण्णजणमणूसा
[१] १ते णं काले णं ते ण'इत्यादि । 'ते' इति प्राकृतशैलीवशात् 'तस्मिन्' इति द्रष्टव्यम्-अस्थायमर्थः-यस्मिन् काले भगवान वर्द्धमानस्वामी स्वयं विहरति स्म तस्मिन्निति । 'ण'इति वाक्यालङ्कारे, दृष्टश्चान्यत्रापि 'ण'शब्दो वाक्यालङ्कारार्थः-यथा-"इमा णं पुढवी" [इत्यादाविति । 'काले अधिकृतावसपिणीचतुर्थविभागरूपे,अत्रापि 'ण'शब्दो वाक्यालंकृतौ । तेणं समए ण' समयोऽवसरवाची, तथा च लोके वक्तार:-'नाद्याप्येतस्य वक्तव्यस्य समयो वर्चते-किमुक्तं भवति-नाद्याप्येतस्य वक्तव्यस्यावसरो वर्तते इति ।
'तस्मिन् इति यस्मिन् समये भगवान् सूर्याभदेववक्तव्यतामचकथत् तस्मिन् समये आमलकल्पा नाम नगरी अभवत् , ननु इदानीमपि सा नगरी वर्तते ततः कथमुक्तम् 'अभवत् इति ? उच्यते, वक्ष्यमाणवर्णकग्रन्थोक्तविभूतिसमन्विता तदैवाभवत् , न तु विवक्षितोपाङ्गविधानकाले, तदपि कथमवसेयम् ? इति चेत् , उच्यते, अयं कालः अवसर्पिणी, अवसपिण्यां च प्रतिक्षणं शुभा भावा हानिमुपगच्छन्ति, एतच्च सुप्रतीतं जिनवचनवेदिनाम् अतः 'अभवत्' इत्युच्यमानं न विरोधभाक् ।
सम्प्रत्यस्या नगर्या वर्णकमाह-२ऋद्धा-भवनः पौरजनैश्चातीव वृद्धिमुपागता, "ऋधि वृद्धौ”[दिवादि-४३-धातुपारायण]इति वचनात् । ३स्तिमिता-स्वचक्रपरचक्रतस्करडमरादिसमुत्थभयकल्लोलमालाविवर्जिता। ४समृद्धा-धनधान्यादिविभूतियुक्ता, ततः पदत्रयस्य विशेषणसमासः। यावच्छब्देन-५प्रमुदिताः-प्रमोदवन्तः प्रमोदहेतुवस्तूनां तत्र सद्भावात् , जना-नगरीवास्तव्यलोकाः जान पदा:-जनपदभवाः तत्र प्रयोजनवशाद् आयाताः सन्तो यत्र सा प्रमुदितजन-जानपदा।६मनुष्यजनैराकीर्णा, प्राकृतत्वात् पदव्यत्ययः।
Jain Education remona
For Private Personel Use Only
w
rjainelibrary.org