________________
रायपसेण
इयं।
विवरणकारदर्शितं'रायपसेणइय' सूत्रस्य उपाङ्गत्वम्
॥२॥
इहावतीर्य भगवतः पुरतो द्वात्रिंशद्विधि नाटथमनरीनृत्यत् , नर्तित्वा च यथाऽऽयुष्कं दिवि सुखमनुभूय ततश्युत्वा यत्र समागत्य मुक्तिपदमवाप्स्यति, तदेतत् सर्वमस्मिन् उपाङ्गेऽभिधेयम् , परं सकलवक्तव्यतामूलम्-'राजप्रश्नीय' इति-राजप्रश्नेषु भवं राजप्रश्नीयम् ।
____ अथ कस्याङ्गस्य इदमुपाङ्गम् ? उच्यते, सूत्रकृताङ्गस्य, कथं तदुपाङ्गतेति चेत् , उच्यते, सूत्रकृते ह्यङ्गे अशीत्यधिकं शतं किया| वादिनाम् , चतुरशीतिः अक्रियावादिनाम् , सप्तषष्टिः अज्ञानिकानाम् , द्वात्रिंशत् बैनयिकानाम्-सर्वसंख्यया त्रीणि शतानि त्रिपष्टयधिकानि पाखण्डिकशतानि प्रतिक्षिप्य स्वसमयः स्थाप्यते । उक्त च नन्द्यध्ययने-"सूयगडे णं असीयस्स किरियावाइसयस्स, चतुरा| सीईए अकिरियावाईणं, सत्तट्ठीए अण्णाणियवाईणं, बत्तीसाए वेणइयवाईणं-तिहं तेसट्ठाणं पासंडियसयाणं वूह किच्चा ससमए ठाविअइ"त्ति [नन्दीसूत्र--अङ्गप्रविष्टाधिकार पृ० २१२] प्रदेशी च राजा पूर्वम्-अक्रियावादिमतभावितमना आसीत् , अक्रियावादिमतमेव चावलम्ब्य जीवविषयान् प्रश्नानकरोत् , केशिकुमारश्रमणश्च गणधारी सूत्रकृताङ्गसूचितमक्रियावादिमतप्रक्षेपमुपजीव्य व्याकरणानि व्याकार्षीत, ततो यान्येव सूत्रकृताङ्गसूचितानि केशिकुमारश्रमणेन व्याकरणानि व्याकृतानि तान्येवात्र सविस्तरमुक्तानीति सूत्रकृताङ्गगतविशेषप्रकटनाद् इदमुपाङ्गं सूत्रकृताङ्गस्येति ।
एतद्वक्तव्यता च भगवता वर्द्धमानखामिना गौतमाय साक्षादभिहिता, तत्र यस्यां नगर्या येन प्रक्रमेण अभ्यधीयत तदेतत् सर्वमभिधित्सुरिदमाह
१ "सूत्रकृते अशीत्यधिकस्य क्रियावादिशतस्य, चतुरशीतेः अक्रियावादिनाम् , सप्तषष्टेः अज्ञानिकानाम् , द्वात्रिंशतो वैनथिकानाम्-सर्वसंख्यया प्रयाणां त्रिषष्टयधिकानां पाखण्डिशतानां ब्यूहम्-प्रतिक्षेपं कृत्वा स्वसमयः स्थाप्यते” इति नन्दीसूत्रस्य श्रीमलयगिरिकृता वृत्तिः।
For Private Personel Use Only
Jan Educationamenal
jainelibrary.org