________________
॥ नमो तस्स समणस्स भगवओ वद्धमाणस्स ॥
रायपसेणइयं।
आचार्यश्रीमलयगिरिविहितविवरणयुतम्
रायपसेणइयं।
विवरणकारकल्पितः रायपसेणइयशब्दार्थः ॥१॥
0000000
प्रणमत वीरजिनेश्वरचरणयुगं परमपाटलच्छायम् । अधरीकृतनतवासवमुकुटस्थितरत्नरुचिचक्रम् ॥
राजप्रश्नीयमहं विवृणोमि यथाऽऽगमं गुरुनियोगात् । तत्र च शक्तिमशक्तिं गुरवो जानन्ति का चिन्ता॥ अथ कस्माद् इदमुपाङ्ग राजप्रश्नीयाभिधानमिति ? उच्यते, इह प्रदेशिनामा राजा भगवतः केशिकुमारश्रमणस्य समीपे यान् जीवविषयान् प्रश्नानकार्षीत् , यानि च तस्मै केशिकुमारश्रमणो मणभृत् व्याकरणानि व्याकृतवान् , यच्च व्याकरणसम्यकपरिणतिभावतो बोधिमासाद्य मरणान्ते शुभानुशययोगतः प्रथमे सौधर्मनाम्नि नाकलोके विमानमाधिपत्येनाध्यतिष्ठत् , यथा च विमानाविपत्यप्राप्त्यनन्तरं सम्यगवधिज्ञानाभोगतः श्रीमद्धर्धमानखामिनं भगवन्तमालोक्य भक्त्यतिशयपरीतचेताः सर्वखसामग्रीसमेत
Jain Educat
i
on
For Private & Personel Use Only
www.jainelibrary.org