________________
रायपसेण
इयं ।
लोगुत्तमाणं लोगनाहाणं लोगैहिआणं लोगपईवाणं लोगपजोगराणं अभयदयाणं चक्खुदयाण मग्गदाणं सेरणदयाणं बोहिदयाणं धम्मदयाणं धम्मैदेसयाणं तथा ३१लोको-भव्यसवलोकः तस्य सकलकल्याणैकनिबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्यः, तथा ३२ लोकस्य नाथायोगक्षेमकृतो लोकनाथास्तेभ्यः, तत्र योगो बीजाधानोद्भेदपोषणकरणम्-क्षेमम् च तत्तदुपद्रवाद्यभावापादनं, तथा ३३ लोकस्यप्राणिलोकस्य पश्चास्तिकायात्मकस्य वा हिताहितोपदेशेन सम्यमरूपणया वा लोकहितास्तेभ्यः, तथा ३४लोकस्य-देशनायोग्यस्य |५|
॥२५७॥ प्रदीपा देशनांशुभियथावस्थितवस्तुप्रकाशका लोकपदीपास्तेभ्यः, तथा ३५ लोकस्य-उत्कृष्टमतेर्भव्यसतलोकस्य प्रद्योतनं प्रद्योतकत्वविशिष्टा ज्ञानशक्तिस्तत्करणशीला लोकप्रद्योतकराः-तथा च भवन्ति भगवत्प्रसादात् तत्क्षणमेव भगवन्तो गणभृतो विशिष्टज्ञानसंपत्समन्विता यदशाद् द्वादशाङ्गमारचयन्तीति-तेभ्यः, तथा ३६ अभयं-विशिष्टमात्मनः स्वास्थ्य, निःश्रेयसधर्मभूमिकानिवन्धनभूता परमा धृतिरिति भावः, ततः अभयं ददतीत्यभयदा+स्तेभ्यः, तथा ३७ चक्षुरिव चक्षुः-विशिष्ट आत्मधर्मः तत्वावबोधनिबन्धनः श्रद्धास्वभावः, श्रद्धाविहीनस्य अचक्षुष्मत इव रूपतत्त्वदर्शनायोगात् तद् ददतीति चक्षुर्दास्तेभ्यः, तथा ३८ मार्गो-विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषस्तं ददतीति मार्गदाः, तथा ३९शरणं-संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वासनस्थानकल्प तत्वचिन्तारूपमध्यवसानं तद् ददतीति शरणदास्तेभ्यः, तथा ४०बोधिः-जिनप्रणीतधर्मप्राप्तिस्तत्वार्थश्रद्धानलक्षणसम्यग्दशनरूपा तां ददतीति बोधिदास्तेभ्यः, तथा ४१ धर्म-चारित्ररूपं ददतीति धर्मदास्तेभ्यः, कथं धर्मदाः ? इत्याह-४२ धर्म दिशन्तीति |
+ 'अभयद' स्थाने 'अभयदय' इत्यत्र "सूत्रे च 'क' प्रत्ययः स्वार्थिकः प्राकृतलक्षणवशात्-एवमन्यत्रापि"-राय०वि० ।
Jain Education Meme Lonal
For Private & Personel Use Only
watjainelibrary.org