SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ रायपसेण- इयं।। ॥ ९ ॥ वावीयाओ पुक्खरिणीओ दीहियाओ गुंजालियाओ सरपंतियाओ सरसंरपंतियाओ बिलपंतिओ अच्छाओ सैण्हाओ रयामयकूलाओ सैमतीरातो वयरामयपासाणातो तवणिज्जतलाओ सुवण्णसुज्झरययवालुयाओ वेलियमणिफालियपडलपच्चोयडाओ सुहोयारसुउत्ताराओ गाणामणितित्थसुबद्धाओ लघवो लघवो इत्यर्थः, ५ वाप्यश्चतुरस्राः ६ पुष्करिण्यो वृत्ताकारा अथवा पुष्कराणि विद्यन्ते यासु ताः पुष्करिण्यः ७दीर्घिका ऋज्व्यो। नद्यः ८ वक्रा नद्यो गुजालिकाः, ९ बहूनि केवलकेवलानि पुष्पावकीर्णकानि सरांसि एकपतया व्यवस्थितानि सरपतिः-बह्वयः सरपतयः तथा १० येषु सरःसु पतथा व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सा सरःसर पङ्क्तिः ताः-बह्वयः सरःसर पङ्क्तयः, तथा ११ विलानीव * बिलानि-कूपास्तेषां पतयः बिलपतयः एताश्च सर्वा अपि कथंभूताः ? इत्याह-१२ अच्छा:-स्फटिकवद् बहिनिर्मलप्रदेशाः १३ श्लक्ष्णा:-श्लक्ष्णपुद्गलनिष्पादितबहिःप्रदेशाः श्लक्ष्णदलनिष्पन्नपटवत् , तथा १४ रजतमयं-रूप्यमयं कूलं यासांता रजतमयकूलाः, तथा १५ सम-न गर्ताभावात् विषमम्-तीरं-तीरवर्तिजलापूरितं स्थानं यासां ताः समतीराः, तथा १६ वज्रमयाः पाषाणा यास ता वज्रमयपाषाणाः, तथा १७ तपनीयं-हेमविशेषः तपनीयमयं तलं यासां तास्तपनीयतलाः, तथा १८ सुवर्ण-पीत-१० कान्ति हेम सुज्झं-रूप्यविशेषः रजतं प्रतीतं तन्मय्यो वालुका यासु ताः सुवर्णसुज्झरजतवालुकाः, १९वैडूर्यमणिमयानि स्फटिकपटलमयानि च प्रत्यवतटानि-तटसमीपवर्तिनः अत्युन्नतप्रदेशा यासां ता वैडूर्यमणिस्फटिकपटलपत्यवतटाः, २० सुखेनावतारो जलमध्ये | प्रवेशनं यासु वाः सुखावताराः तथा सुखेन उत्तारो-जलमध्याद् बहिनिर्गमनं यासु ताः +सुखोत्ताराः २१ नानामणिभिः-नानाप्रका * मारवाडीभाषायाम् 'कूप' पर्यायः 'बेरा' शब्दः श्रूयते। + "ततः पूर्वपदेन विशेषणसमास:"-राय० वि०। Jan Education a l For Private Personal use only M ainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy