________________
रायपसेण
॥१७॥
तंगी गगणतलमणुलिहतसिहरा जालंतररयण= पंजरुम्मिलिय व्व मणिकणगथूभियागा वियसियसयवित्तपोंडरीतिलगरयणद्धचंदचित्ता णाणामणिदामालंकिया अतो बहिं च सहा तवणिज्जवालयापत्थडा न्त्यभिधाना याः पताका अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्पधाना वैजयन्त्यो विजयवैजयन्त्यः पताकास्ता एव विजयवर्जिता वैजयन्त्यः, छत्रातिच्छत्राणि-उपयुपरि स्थितान्यातपत्राणि तैः कलिता वातोद्धृतविजयवैजयन्तीपताकाच्छत्रातिच्छत्र कलिताः १७तुङ्गा-उच्चा उच्चस्त्वेन-अर्द्धतृतीययोजनशतप्रमाणत्वात् अत एव १८गगनतलं-अम्बरतलम् +अनुलिखन्ति-अभिलङ्घयन्ति | शिखराणि येषां ते तथा, १९ जालानि-जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तर-रत्नाः, तथा २०४ पञ्जरात् उन्मीलिता इव-बहिष्कृता इव पञ्जरोन्मीलिता इव, यथा हि किल किमपि वस्तु पञ्जरात्वंशादिमयाच्छादनविशेषात् बहिष्कृतम्-अत्यन्तमविनष्टच्छायत्वात् शोभवे एवं तेऽपि प्रासादावतंसका इति भावः, तथा २१ मणिकनकानि-मणि कनकमय्यः स्तूपिका:-शिखराणि येषां ते मणिकनकस्तूपिकाः, तथा २२ विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ 8 प्रतिकृतित्वेन स्थितानि तिलकरत्नानि-भित्यादिषु पुण्ड्रविशेषा अर्द्धचन्द्राश्च द्वारादिषु तैश्चित्रा:-नानारूपा आश्चर्यभूता वा विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राः, तथा २३ नाना अनेकरूपाणि यानि मणिदामानि-मणिमयपुष्पमालाः तैः अलं| कृतानि शोभितानि नानामणिदामालंकृतानि तथा २४ अन्तर्वहिश्च श्लक्ष्णा-मसृगाः, तथा २५ तपनीयं-सुवर्णविशेषस्तन्मय्या
= "सूत्रे विभक्तिलोपः प्राकृतत्वात् "-राय०वि० । सत्यां विभक्तौ 'जालंतररयणा'इति युक्तम् । + 'शत्' प्रत्ययान्तं कृदन्तं प्रथमाबहुवचनम् । x भाषायाम् 'पांजरूं' इति। 8 प्रकृति-पा० ४ भा०१। प्रकृतत्वे-पा० ५। प्राकृतत्वे-भा०२।। एतच्च विशेषणं मुद्रित एव पुस्तके।
Jain Education
emelona
For Private & Personel Use Only
wwllainelibrary.org