SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ रायसेनइयं । विशिष्टः सन् तत्र विहरति ? इत्यत आह ऊर्ध्वं जानुनी यस्य असौ ऊर्ध्वजानुः अधः शिराः - नोर्ध्व तिर्यग्वा विक्षिप्तदृष्टिः किन्तु नियतभूभागनियमितदृष्टिः इत्यर्थः ध्यानं धर्मध्यानं शुक्लध्यानं च तदेव कोष्ठः कुशूलो ध्यानकोष्ठः तम् उपगतो ध्यानकोष्ठोपगतः यथा हि कोष्ठके धान्य प्रक्षिसम् अविप्रसृतं भवति एवं भगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिः इत्यर्थः संयमेन पञ्चाश्रवनिरोधादिलक्षणेन तपसा अनशनादिना 'च' शब्दोऽत्र समुच्चयार्थो लुप्तो द्रष्टव्यः संयम - तपोग्रहणम् अनयोः प्रधानमोक्षाङ्गताख्यापनार्थम् प्राधान्यं च नवकर्मानुपादान हेतुत्वेन तपसश्च पुराणकर्मनिर्जराहेतुत्वेन तथाहि अभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच्च जायते सकलकर्मक्षयलक्षणो मोक्षः ततो भवति संयम - तपसोमक्षं प्रति प्राधान्यम् इति । आत्मानं वासयन् तिष्ठति । ततो ध्यानकोष्ठोपगतविहरणाद् अनन्तरं भगवान् गौतमो जातश्रद्धादिविशेषणविशिष्टः सन् उत्तिष्ठति इति योगः तत्र जाता प्रवृत्ता श्रद्धा इच्छा वक्ष्यमाणार्थतत्त्वावगमं प्रति यस्य असौ जातश्रद्धः तथा जातः संशयो यस्य स जातसंशयः संशयो नाम अनवधारितार्थज्ञानम् स चैवम् इत्थं नाम अस्य दिव्या देवधिविस्तृता अभ वत् इदानीं साक्व गता ?' इति तथा जातं कुतूहलं यस्य स जातकुतूहलः जातौत्सुक्य इत्यर्थः यथा - 'कथममुमर्थे भगवान् प्ररूपयिष्यति' इति तथा उत्पन्ना प्राग् अभूता सती भूता श्रद्धा यस्य असौ उत्पन्नश्रद्धः अथ 'जातश्रद्धः' इत्येतदेव अस्तु किमर्थम् 'उत्प- १० नद्धः' इति प्रवृत्तद्धत्वेनैव उत्पन्नश्रद्धत्वस्य लब्धत्वात् नहि अनुत्पन्ना श्रद्धा प्रवर्तते ? इति अत्रोच्यतेः हेतुत्वप्रदर्शनार्थम् तथाहिकथं प्रवृत्तश्रद्धः उच्यते यतः उत्पन्नश्रद्धः इति हेतुत्वदर्शनं चोपपन्नम् तस्य काव्यालंकारत्वात् यथा "प्रवृत्तदीपामप्रवृत्तभास्कराम् प्रकाशचन्द्रां बुबुधे विभावरीम् " [ ] इत्यत्र, अत्र हि यद्यपि प्रवृत्तदीपादित्वादेव अप्रवृत्तभास्करत्वम् अवगतम् तथापि अप्रवृत्तभास्करत्वं प्रवृत्तदीपादेर्हेतुतया उपन्यस्तमिति सम्यक् । 'उप्पन्नसहे' 'उप्पन्नसंसर' इति प्राग्वत् तथा 'संजायसङ्के' इत्यादि पदपटुक प्राग्वत् नवरम्-इह 'सम्'शब्दः प्रकर्षादिवचनो वेदितव्यः उत्थानम् उत्था - ऊर्ध्ववर्तनम् तथा उत्तिष्ठति । इइ 'उट्ठेइ' इत्युक्ते क्रियारम्भ- १५ मात्रमपि प्रतीयेत यथा 'वक्तु+मुत्तिष्ठति' ततः तद्वयवच्छेदार्थम् 'उट्टाए' इत्युक्तम्-उत्थया उत्थाय यस्मिन् दिग्भागे श्रमणो भगवान् + मुत्तिष्ठते ततः पा० ४। मुपतिष्ठते ततः पा० ५ । Jain Education interational For Private & Personal Use Only ॥१४९॥ w.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy