________________
रायपसेणइयं।
॥१४८॥
वच्च यो गौरः स कनकपुलकनिकषपद्मगौरः अथवा कनकस्य यः पुलको द्रवत्वे सति बिन्दुः तस्य निकषो वर्णतः सदृशः कनकपुलकनिकषः तथा पद्मवत्-पद्मकेसरवत् यो गौरः स ० पद्मगौरः। अयं च विशिष्टचरणरहितोऽपि शङ्कयेत तत आह-उग्रम् | अधृष्यं तपः अनशनादि यस्य स तथा यद् अन्येन प्राकृतेन पुंसान शक्यते चिन्तयितुमपि मनसा तद्विधेन तपसा युक्त इत्यर्थः तथा दीप्तं जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितं तपो धर्मध्यानादि यस्य स तथा, तप्तं तपो येन स तप्ततपाः पर्व हि तेन तपः तप्तं येन सर्वाण्यपि अशुभानि कर्माणि भस्मसात्कृतानि इति. महत् प्रशस्तम्-आशंसादोषरहितत्यात्-तपो यस्य स महातपाः तथा उदारः प्रधानः अथवा + उरालो भीष्मः उग्रादिविशिष्टतपःकरणतः पार्श्वस्थानाम्-अल्पसत्त्वानाम् अतिभयानक इति भावः तथा घोरो निघृणः परीपहेन्द्रियादिरिपुगणविनाशनमधिकृत्य निर्दय इति यावत् तथा घोरा अन्यैर्दुरनुचरा गुणा मूलगुणादयो यस्य स घोरगुणः तथा घोरैस्तपोभिः तपस्वी घोरतपस्वी घोरं दारुणम् अल्पसत्त्वैर्दुरनुचरत्वात् ब्रह्मचर्य यत् तत्र वस्तुं शीलं यस्य स तथा 8 उच्छूढम्-उज्झितमिव उज्झितं संस्कारपरित्यागात्-शरीरं येन स उच्छूढशरीरः संक्षिप्ता शरीरान्तर्गतत्वेन ह्रस्वतां गता विपुला विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा चतुर्दश पूर्वाणि विद्यन्ते यस्य-तेनैव तेषां रचितत्वातू-असौ चतुर्दशपूर्वी अनेन तस्य श्रुतकेवलित्वमाह स च अवधिज्ञानादिविकलोऽपि स्यात् अत आह-मति-श्रुत-अवधि-मनःपर्यायज्ञानचतुष्टयसमन्वितः उक्तविशेषणद्वययुक्तोऽपि कश्चिद् न समनश्रुतविषयव्यापिशानो भवति चतुर्दशपूर्वविदामपि षट्स्थानपतितत्वेन श्रवणात् अत आह सर्वाक्षरसंनिपाती अक्षराणां संनिपाताः संयोगाः अक्षरसन्निपाताः सर्वे च ते अक्षरसन्निपाताश्च सर्वाक्षरसन्निपाताः ते यस्य ज्ञेयाः स तथा किमुक्तं भवति? या काचिद् जगति पदानुपूर्वी वाक्यानुपूर्वी चा संभवति ताः सर्वा अपि जानातीति पवंगुणविशिष्टो भगवान् विनयराशिरिव साक्षात् इति कृत्वा शिष्याचारत्वाच्च श्रमणस्य भगवतो महावीरस्य अदरसामन्ते विहरति-इति योगः तत्र दूरं विप्रकृष्टम् तत्प्रतिषेधाद् अदूरसामन्तम्-ततो नातिदूरे नातिनिकटे इत्यर्थः किं
० "ततः पदद्वयस्य कर्मधारयसमासः"-राय० विव० । + 'उरालो' अयं प्राकृतः प्रयोगः। 8 'उच्छदम्' इदमपि प्राकृतं पदम् । '
Jain Education lemona
For Private Personel Use Only
Miw.jainelibrary.org