SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ रायपसेण नाव्यस्य नामग्राहं द्वात्रिंशत् प्रकाराः |॥१३५॥ [६५] तंए से दिव्वे गीए दिवे वाइए दिव्वे नद्दे एवं अब्भुए सिंगारे उराले मणुन्ने मणेहरे गीते मण-| हरे न मणहरे वातिए उम्पिजलभूते कहकहभृते दिवे देवरमणे पबत्ते या वि होत्या। [६६] तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओमहावीरस्स सोत्थिय-सिरिवच्छ [६५] यत एवं प्रगीतवन्त इत्यादि १ ततः २ तद् दिव्यं गीतम् ३ दिव्यं वादितम् ४ दिव्यं नृत्तमभवत् इति योगः । ४ दिव्यं नाम प्रधानम् ५ अद्भुतम्-आश्चर्यकारि ६ शृङ्गारं शृङ्गाररसोपेतत्वात् अथवा शृङ्गारं नाम अलंकृतमुच्यते तत्र यद् अन्यान्यविशेषक- | रणेन अलंकृतमिव गीतं वादनं नृत्तं वा तत शृङ्गारम्-इति । ७ उदारम्-स्फारं परिपूर्णगुणोपेतत्वात् न तु क्वचिदपि हीनम् ८ मनोज्ञम् | मनोनुकूलं द्रष्ट्रणां श्रोतृणां च मनोनिवृतिकरम्-इति भावः ९ तच्च मनोनिवृतिकरत्वं सामान्यतोऽपि स्यात् अतः प्रकर्षविशेषप्रतिपादनार्थमाह-मनो हरति आत्मवशं नयति तद्विदामपि अतिचमत्कारकारितया इति मनोहरम् १० उत्पिञ्जलम्-आकुलकम् उत्पिञ्जलभूते आकुलके भृते किमुक्तं भवति ? महर्षिकदेवानामपि अतिशायितया परमक्षोभोत्पादकत्वेन सकलदेव-असुर-मनुजसमूहचिताक्षेपकारि-इति ११ 'कहकह' इत्यनुकरणम् 'कहकह' इति भूतं प्राप्तम्-कहकहभूतम् किमुक्तं भवति ? निरन्तरं तत्तद्विशेषदर्शनतः समुच्छलितप्रमोदभरवशसकलदिक्चक्रवालवर्तिप्रेक्षकजनकृतप्रशंसावचनबोलकोलाहलव्याकुलीभृतम्-इति अत एव १२ दिव्यं देवरमणमपि-देवानामपि रमणं क्रीडनम्-१३ प्रवृत्तम् १४ अभृत् । [६६] १ ततः २ ते बहवो देवकुमारा देवकुमारिकाश्च ३ श्रमणस्य भगवतो महावीरस्य पुरतो गौतमादिश्रमणानां ४ स्वस्तिककायर्या मूले विवरणे च पदानां व्युत्क्रमः प्रतिभाति । Jain Educationtentional For Private & Personal Use Only ainelibraryong
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy