SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ इयं। आभियोगिकान् प्रति श्रीमहावीरस्य उक्तिः ॥५९॥ कल्लाणं मगलं देवयं चेइयं पज्जुवासामो।। [२०] *देवाइ समणे भगवं महावीरे ते देवे एवं वदासी-पोरोणमेयं देवा! 'जीयमेयं देवा! किच्चमेयं देवा! १४देवादियोगात् देवादिः श्रमणो भगवान् महावीरः २ तान् देवान् ३ एवमवादी-४पुराणेषु भवं पौराणमेतत् कर्म भो देवाः | चिरन्तनैरपि देवैः कृतमिदं चिरन्तनान् तीर्थङ्करान् प्रतीति तात्पर्यार्थः । देयमेतद् वन्दनादिकं तीर्थकृद्भयो भो देवाः! * देवा य समणे भा० २। + नाय पाठः पा० ३। परंतु केनचिद् वाचकेन तत्प्रतिकणिकायां लिखितः । Xअत्र विवरणकारः 'देवाइ' इत्येवंरूपं मूलपाठं दृष्ट्वा "देवादियोगात् देवादिः" इति तद्वयाख्यानं करोति। अनेन विवरणेन ‘देवादिः इति पदं 'श्रमणो भगवान् ' इत्यस्य विशेषणभूतं जायते परंतु 'देवादियोगात् देवादिः' इति व्याख्याय विवरणकारः भगवतो महावीरस्य कमभिनवं विशेष ज्ञापयति इति न सम्यग अवगम्यते। 'देवेषु आदिरूपः योगो यस्य अर्थात् सर्वेषु देवेषु आदिभूतो भगवान्' इत्यर्थोऽभिप्रेतस्तदा संगतिर्भवेत् । परंतु नायमर्थः प्रासादिकः । मदभिप्रायेण तु 'देवा इ' इति पदद्वयम् । तस्यार्थस्तु 'देवा'-'हे देवाः' 'इ'-'इति' संबोध्य भगवान् तान् देवान् एवमुवाच । 'इ' शब्दः 'इति-इइ-इअ-ई' एतत्क्रमेण 'इति' शब्दस्य रूपान्तरम् । एवंप्रकारा वाक्यरचना अन्यत्रापि समायाता। यथा "गोयमा इ समणे भगवं महावीरे भगवं गोयम एवं वयासी" [व्याख्याप्रज्ञप्ति द्वि० श० उ० १ स्कन्दक] अर्थात् “गोयमा'-'गौतम !' 'इ'-'इति संबोध्य' श्रमणो भगवान् महावीरः भगवन्तं गौतमम् एवम् अवादीत्" । व्याख्याप्रज्ञप्तिटीकाकृता श्रीमता अभयदेवसूरिणाऽपि मदभिप्राय एव समर्थितः । तथाहि- गोयमा इ' त्ति गौतम ! इति एवम् , आमन्त्र्य इति शेषः”। अतः 'देवा इ'इति पदद्वयमेव सुसंगतम् । 8 मूलपाठे 'पोराणमेयं देवा ! इति पाठानन्तरम् ‘जीयमेयं देवा !' इति पाठः सर्वेषु अपि मूलप्रतिपुस्तकेषु लभ्यते परंतु टीकाप्रतिपुस्तकेषु क्यापि तत्पाठविवरण न लब्धम् । टीकाप्रतिपुस्तकेषु सर्वेष्वपि 'पोराण'-इत्यादिपाठविवरणानन्तरम् 'देयमेतद् वन्दनादिकम्' इत्येव पाठो लन्धः इति । Jain Educati onal For Private Personel Use Only Pww.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy