________________
पुण्डरीक
चरित्रम्.
0000000000000000000000000000000000000000
(श्रीऋषभप्रतिवचः, मरीचिपरिचयश्च-) भरतभूमिपतिः प्रभुणा तदा निजगदे जगदेकदयालुना
शृणु मरीचिरयं तव यः सुतो मम पुरोऽस्ति गृहीतमुनिव्रतः ॥५५॥ सर्गः-३ बहुभवस्थितिकर्मवशादसौ न परिपालयितुं व्रतमीशिता।
अथ बिभर्ति सहाऽऽतपवारणं स्फुटमिवाऽऽवरणं परमात्मनः ॥५६॥ मम मनः सकषायमतस्तमपि वृणोति कषायितवाससा।
इह च दण्डित एव भृशं त्रिधा त्रिविधदण्डधरोऽस्मि बहिस्ततः ॥२७॥ 8 न निजकीर्तिसुगन्धियुतोऽस्मि तत् स हरिचन्दनमण्डलमण्डितः।
इति च वेषधरो भ्रमति क्षितौ भवति नैव गृही कुललजया श्रित इतीह नवीनमिव व्रतं भविजनैर्गदितोऽतिकुतूहलात् ।
वद जवानिजधर्ममथाह सः प्रभुमुखाभिहितोऽस्ति नहीतर ४ अहमशक्त इह व्रतपालने मशकवद् दुरितैरबलो हृदि ।
इति विबोध्य ममान्तिकमानयत्ययमनेकनरान् विमलान्तरः ॥३०॥ (चक्रधरः, प्रथमकृष्णः, अन्तिमजिनश्च मरीचि:-) त्वमिव चक्रधरः प्रियमित्र इत्यथ विदेह जमूपुरीपतिः।
प्रथमकृष्ण इतो भरतावनौ स भविताऽन्तिमतीर्थकरो ध्रुवम् ॥६ ॥ 8 (भरतः सहर्ष वक्ति, नमति च-) तनय एष जिनो भविता ममेत्युदितसंमदमेदुरमानसः १ ईशिता समर्थः । २ आत्मनः परम्- आवरणम् । ३ शरीरम् । ४ 'विदेहक्षेत्रे मूकपुरी नाम नगरी' इति जैनसंप्रदायः ।
४॥ ८३.॥
000000000000000000counsoonsoococ00000000000000060
Jain Educal
International
For Private & Personal use only
Mainelibrary.org