SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक सुकृतनिर्मलसूक्तसमन्वितं रचितवानथ भारतभूपतिः ॥३९॥8 (अन्नसत्राणां विधापनम्-) तदनु सर्वगृहाणि बृहत्तराण्यतिसितानि तु पञ्च शतानि सः।। स्थपतिरत्नकरेण च पूर्व दिग्भुवि पुरात् नृपतिनिरमीमपत् ॥४०॥8 रसवतीः सरसाः स रसांधिपोऽद्भुतरसात् तरसा स्थिरसारवान् । __ प्रमुदितोऽनुदिनं समभोजयद् विमलसत्रगृहेषु परीक्षितान् ॥४१॥ स्वपुरपश्चिमभूमितलेऽमलैर्मरकतैर्मणिभिः स महीमणिः । ___ सपदि पञ्चशतीं सितवासनो व्यरचयत्-शुचिसत्रगृहाण्यसौ ॥४२॥ 8 इह सुषेणनृपः सुकुटुम्बिना विहितमन्नचयं सैरसं नवम् । विविधशाकविपाकविशोभितं तदितरांश्च जनान् समभोजयत् ॥४३॥४ (पाठकशालिका व्यरचयत्-) नगरदक्षिणतो हृदि दक्षिणो मणिविनीलितपाठकशालिकाः। व्यरचयद् विपुला बहुशोऽभितः स सुकृतैर्विततैबहुशोभितः ॥४४॥ ४ १२ ४भरतभूमिभुजा त्रिरुपोष्य सा हृदि धृता मुदितैत्य सरस्वती। . . विमलवेदचतुष्टयपुस्तकैरभृत ताः किल पाठकशालिकाः ॥४॥ (रचयति सुपौषधशालिकाः-) निजपुरोऽन्तरतस्तु महत्तराः कनकपिङ्गमणीभिरयं नृपः। सुरसहस्रयुजः स्थपतेः करात् रचयति स्म सुपौषधशालिकाः ॥४६॥81 १ सत्रगृहम्-अन्नगृहम्-" छत्रं” इति तामिलभाषायां प्रसिद्धम् । २ रसाधिपः- भूमिपतिः। ३ सिता पवित्रा वासना वृत्तियस्य सः। ४ सरसम्-रसेन सहितम्, सुन्दरं च। ५ दक्षिणो दक्षः । ६ अभितः सर्वतः । 50000pmomcoo000000000000000000000000000000wooooor రందcommonscam.com corocco00008 Jain Education international For Private & Personal use only ainelibraron
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy