________________
व
पुण्डरीक
निजमनोऽपि विहाय सुसाधवो त्यभिलषन्त्यपरं न तु भोजनात् ॥११७॥ [भरतो भोजनमानयत्-] इति निशम्य दृढप्रतिभो जनप्रभुरिहाद्भुतभोजनमानयत् । 8 सर्गः-३
__अथ जगाद विभो ! मम बान्धवान् यतिवरान् विसृजाऽशनहेतवे ॥११८॥ ४जिनवरो न्यगदन्नवभोजनं सुयतिनामिह कल्पत एव न ।
नृपतिपिण्ड-निमित्तकृता-ऽऽहतैस्त्रिभिरतिप्रकटगुरुदूषणैः ॥११९॥ इति विभोर्वचनादतिदैन्यभाक् मुषितवद् भरतोऽजनि चयपि ।
स्वविभुता स्वजनानुपयोगिनी सुमनसा सुखयेन मनांस्यहो! २०॥४॥ [सुरपतिरवदत्-] सुरपतिदृढधार्मिकबान्धवेऽसुखनिराकृतयेऽस्य तदाऽवदत् ।
सुयतिनां हि भवेयुरवग्रहा इह कियन्त इति प्रवद प्रभो! [अवग्रहाः पञ्च-] प्रभुरवोचत भारतभूतले प्रथमकल्पपतेरथ चक्रिणः।
नरपतेर्गृहिणः स्वगुरोरिति भवति पञ्चविधोऽयमवग्रहः [सुरपति-जनपतिभ्याम्-अवग्रहदानम्-] इति तदा गदिते प्रभुणा दिवःप्रभुरवग् जगदीश्वर ! नित्यशः।
विचरणाय मया, यतिनां ददे ध्रुवमवग्रॅह एष सुभारते ॥१२३॥४ भरतभूपतिरप्यतिहर्षतः प्रथमतीर्थपतिं प्रणिपत्य सः । वसतये यतिनां प्रददौ तदा भरतभूमितले स्वमवग्रहम् ।
१ नृपतिपिण्डो-राजान्नम्। निमित्तकृतम्-साधून् उद्दिश्य हिंसादिकरणतो यद् भोजनादि कृतं तत् । आहृतम्-साधूनां भक्षणाय तेषां संमुखम-यद् आनीतं ) तत्-एतत्त्रयविशेषणविशिष्टं भोजनं हिंसादिअनेकदोषजनकत्वेन न श्रमणानां कल्पते-इति । २ लुण्टितवत् । ३ दिवःप्रभुः-इन्द्रः । ४ अवग्रह-शब्दः अनुज्ञा-पर्यायप्रायः।
18॥ ७८॥
5000000000000000000000000000000000000000000000000000
00000000000000000000000000000000000000000000000000
Jain Education tematonal
For Private & Personal use only
jainelibrary.org