________________
1184 11
पुण्डरीक - टमणी रमणीवृतोऽशुभत् रमणीयो रमणीयसः स्मरात् । अंधिको जगतां रतीश्वरो हरवदेरिव गोपितोऽम्भसि । किल किश्चित् कोमलेक्षणा रमयित्वा सुचिरं मृगेक्षणाः । विरराम ततोऽभिरामंरुग् जलकेलीरसतो रसाधिपः ॥ नवरो ह्यवरोर्धेयुक् सरस्तटगोऽयं रुरुचे रुचेः पदम् । धनकौलमतीत्य तारिकाकलितो निर्मलचन्द्रमा इव ।। धृतसद्दशचीवरस्तदा शुशुभे भूमिशैचीवरः स्थितः । किमु शारदचन्द्र - चन्द्रिकां परिधी या स्ति सुवर्णपर्वतः १ ॥ अथ देवगृहं हिरण्मयं नृपतिर्वीक्ष्य विवेश यावता । मकरध्वजमूर्तिमद्भुतां पुरतस्तावदसौ व्यलोकयत् ॥७८ गुरुदिव्यसरोवरोद्भवैर्जलजैस्तं परिपूज्य च स्मरम् । स नृपोऽस्य च रङ्गमण्डपे किल शिश्राय मृगेन्द्रविष्टरम् ॥७९ भरतेन सुरीसमागमः -
इह काऽपि सुरी सुंरीतिवित् समुपेत्य प्रणिपत्य तं नृपम् । अवतंसितपाणिपद्मका विदुषी प्रौढिमयुक्तमब्रवीत्। विजयख चिरं जगत्त्रयप्रभुनाभेय जिनेन्द्रनन्दन ! अवधार्य वचः सुधानिभं वसुधाधीश ! शृणु प्रसव मे ॥ भरतक्षितिवासिनीचतुर्दशसाहस्रमदीश्वरीवृता । तव दर्शनमिच्छति प्रभो ! ननु गङ्गा निजचित्तरङ्गतः ॥ ८२|| ४ इति तद्वचनं निशम्य स स्मितलीलाललितं किलाऽलपत् । तव वाग्विषये मनोरमे ! मम हर्षेण मनोरमेधते ॥ ८३ ॥ अथ भारतभूपतिप्रिया सहसा साऽऽह सुहास्यवासितम्। वचनाद् विदिता मनोर मे (?) जगतीजीवितनाथ ! किं तव इति तद्वचनं निपीय सा मुदिता यातवती च यावता । अभवन् सुविमान राशयः प्रकटास्तावद्धाऽम्बरे सुराः ॥
४
१२
१ स्मरादपि रमणीयः । २ जगतां हि प्रियो रतीश्वरः कामः- शिववहेः भयात् जले गोपितः प्रच्छन्नीकृत इव भरतः सरोवर-गतो भाति । ३ सुन्दरकान्तिमान् । ४ अवरोधो हि अन्तःपुरम् । ५ पदं स्थानम् । ६ मेघकालम् । ७ भूमिइन्द्रः । ८ परिधानं कृत्वा । ९ मेरुः । १० सिंहासनम् । ११ सुरीतिं वेत्ति । १२ अरम् अत्यर्थम् - एधते - वर्धते ।
Jain Educationmational
For Private & Personal Use Only
चरित्रम्
सर्गः - २
।। ४५ ।
www.jamblibrary.org