SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ 00000000 चरित्रम् पुण्डरीक अहो! देहोऽप्यहोवसतिरिह नानापरिभव-व्यथाकारी मान्यः स्तव-नमनतो मे समभवत् । सितिः पङ्कः पङ्केरुह निवहतः किं न वहति, प्रसिद्धिं वा स्वर्णात् किल मलगणो जन्यजनिताम् ॥३७॥ मनो हन्ता हन्त ! स्फुटमसि सुविधांस्यपि जगन्-मनांसि त्वय्येवाऽहमहमिकया यान्ति तदहो। अपूर्व सौभाग्यं किमिदमथवा संसदि तव, प्रभो! स्निह्यन्त्येते भुजग-नकुलाद्या अपि मिथः ॥३८॥ जगद्वन्द्य ! स्वामिन् ! यदि तव मता सर्वसमता, तदंहः किं हंसिं प्रमदयति चेतांसि किमु वा । विदूरे संसार शिवसुखमदरे च कुरुवे, वितर्कः को वाऽसाऽवनवगत ! तुभ्यं जिन ! नमः ॥३९॥ गुणानां निर्णाशं विषयसुखविक्षेपमखिलं, कलत्रा-ऽपत्यादिस्वजनविरह देव! यतिनाम् ।। भवान् यच्छन् यच्छत्यलमतुलसौख्यं स्थिरतरं, न विज्ञः सर्वज्ञ! त्वमिव सुखदाने त्रिजगति ॥४०॥ स्फुरत्केन्द्रत्वेन त्वदमलमुखश्वेतरुचिना, प्रभो! दृष्टे जीवे सुकृतधनगेहस्थितिभृति । 18 अभूचित्ते लग्ने त्वयि मम महानन्दजननं, तमाक्रोडो वक्रोऽपि हि मयि न वक्रो भवति तत् ॥४१॥ विभो! भव्यव्यूहं विभव ! विभवस्थं स्थिरविभ!, वृषाङ्कत्वे तिष्ठन्नपमलवृषाङ्कत्वसहितम् । १२ नमस्कारायैनं निजपदगतं भक्तिभरतः, करोषीति स्थाने जिन ! निजपदेऽप्यक्षरमये ॥४२॥ प्रसिद्धा ते स्वामिन् ! युगलविधिविच्छेदपरता, यथा सिद्धान्तेऽमी अभिद्घति दक्षाः खलु तथा। ४ अहं व्यक्तं मन्ये सुखमसुखमात्मीयमितरत्, रिपुर्मित्रं चेति प्रबलयुगलोन्मूलनमळम् ॥४३॥ ४/१ हन्ता घातकः । २ संसदि सभायाम् । ३ अंहः पापम् । ४ हंसि घातं करोषि । ५ असौ अनवगत !। ६ श्वेतरुचिः-चन्द्रः ।8 ४/७ क्रोडो वराहः । ८ अत्र श्लोके वृषभ-शब्दगतानां तृ-प-भ-इति-अक्षरप्रयाणां पादानुक्रमपूर्वमर्थः मूचितः । OOOOOOOOOOOOOOOOO ॥ २४॥ Jain Education emanal For Private & Personal use only www'Onelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy