________________
ROON
मरीक
0000000000000000000000000000000000000000000000000000
प्रणनाम भूतलमिलन्मुकुटः प्रकटप्रमोदभरतो भरतः ॥४८॥ प्रथमार्हतः प्रणमनप्रमदात् दुरितव्ययो गणधरस्य यथा ।
भरताधिपस्य च तथैव गणाधिपतेः पदप्रणमनात् समभूत् ॥४९॥ सुकृतोत्तरोत्तरपवित्रतरः सुकृती त्रिलोकजनहर्षकरः ।
स चतुर्विधश्चतुरधर्मिनरः प्रचचाल संघ उदयत्प्रसरः॥५०॥ (स संघो वराणसिपुरीमगमत्-) अथ संघ एव पृथिवीमखिलामपि पावयन् प्रचुरपुण्यभरैः ।
__अगमद् वराणसिपुरीं तु यतो न गरीयसी दिविषदां नगरी ॥५१॥ (तेन संघेन अत्र विमलाचलो दृष्टः-) बहुकालतोऽभिलषितं हृदये लिखितं युगादिजिनवाक्यरसैः।
विमलाचलं प्रथितसिद्धगिरिं ददृशुभृशं शुचिदृशोऽत्र जनाः ॥५२॥ स वराणसीपरिसरं सरसं गतवान् समग्रसुरसंगतवान् ।
विमलाचलप्रथमवीक्षणतो मुदितोऽजनि प्रथमसंघपतिः ॥५३॥ मणि-हेम-रूप्यमयवप्रवरत्रययुग् युतं च मणिपीठिकया ।
समशिश्रियद् जिनगृहं जिनपः सुरराज-संघपतिभक्तिभरात् ॥५४॥ इह सर्वजीवहृदयप्रमदमदमेष योजनविसपि तदा ।
वचनामृतं विमलशैलमहामहिमान्वितं शुचि ववर्ष जिनः ॥५५॥8| प्रभुदेशनाभवणतो हि तदा हितदा भृशं विगतसर्वमलाः ।
oooo0000000000000000000000000000
२
Jain Educat Bolterational
For Private & Personal Use Only
wwwkalinelibrary.org