________________
चरित्रम्
पुण्डरीक- आदित्यमण्डलम्
आदिकृद् मण्डलमिद-मित्यस्माद् वचनाच्छनैः। आदित्यमण्डलमिति श्रुतिर्जगति पप्रये ॥७०॥ ॥ १८॥ प्रभुस्तक्षशिलापुरे४४ध्यानात् कृतमनोरक्षः प्रभुस्तक्षशिलापुरे । त्यक्तक्रोधादिसंसर्गः कायोत्सर्गमदाद् बहिः ॥७१॥
बाहुबलिना वन्दनाय गतेऽपि असमागमः, तद्विलापश्च8 उद्यानपालैर्विज्ञतो नृपः स्वाभिसमागमम् । सायं मुदाऽयं संध्यो बली बाहुबली नृपः ॥७२॥ ४स्फूर्जत्तमोऽपवित्रायां रात्रौ यात्रौचिती नहि। प्रातस्तातस्ततो वन्द्योऽनवद्योऽयं मया नयात् ॥७३॥ निशायां स विशामीशश्चिन्तयित्वेति संस्थितः। पुरी प्रसाधयामास चारुचन्द्रोदयादिभिः ॥७४।
स्नातः श्वेतवासाः श्रितश्वेतमतंगजः। उच्चैधतसितच्छेत्र-सितचामरवीजितः ॥७॥ रगत्तुरंगै राजन्यै राजराजि स राजितः । परीतोऽन्तःपुरीवृन्दैरनुयातः पुरीजनैः ॥७॥
रनवगीतैश्च प्रेक्षणैः प्रीणितेक्षणः। दत्तवित्तः स्फुरच्चित्तस्तवनं प्राप पावनम् ॥७७। १२ यावद् गजं परित्यज्य विमुश्चन मणिपादके । क्व प्रभुः क्व प्रभुश्चेति जगाद जगतीपतिः ॥७८।
वनीपालोऽवनीपालं नत्वा तावद व्यजिज्ञपत । देव! देवाधिदेवो नो तिष्ठेद भास्वति भास्वति ॥७९॥ ४ श्रुत्वेति मूर्छितः प्राप भुवोऽङ्कमथ भूविभुः। चन्दनैः शिशिरैः नीरैः ससंज्ञो व्यलपत् शुचा ॥८॥
हा तात! त्रिजगत्त्रातः! कथं त्रातस्त्वयाऽस्मि ना। स्वांहिवन्दनपुण्येन पापारेबलिनोऽधुना ॥८॥ ७१ पु० त्यक्तः। २ स्फूर्जता तमसा अपवित्रायाम । ३ यात्राया औचिती। ४ पु०-सितच्छत्रम्। ५ राज्ञांराट्-राजराट्-तस्मिन्
राजराजि । ६ प्रभावति सूर्ये । ७ निषेधार्थे ।
50000000000000000000000000000000000000000000000000000
४॥१८॥
Jain Education
temahonal
For Private & Personal use only
wwwdinelibrary.org