________________
पुण्डरीक-तदोक्तं वज्रनाभोऽयं भरते भविता जिनः। स्मृत्वा श्रेयांस इत्यागान-नाभेयं प्रपितामहम् ॥२६॥
चरित्रम्. नत्वा नाथं निमन्त्रयाऽसौ दानायाऽनं व्यलोकयत् । तावदिक्षुरमोऽभ्यागान-नव्यः श्रेयांसहकपुरः ॥२७॥ 2.इक्षु बालोऽग्रहीनाथस्त्यक्त्वाऽन्याः सुखखादिकाः। इत्युत्सुक इवाऽन्नेभ्यः स्नेहादिक्षुरसोऽभ्यगात् ॥१८॥ ४ सर्व कुम्भततेरिनु-रसं स वितते प्रभोः। करे वरेण भावेन सदाऽऽरोहच्छिखं ददौ ॥१९॥
तदा जयजयारावं देवा देव्यो दिवि व्यधुः। सुवर्ण-रत्नवर्ष च चक्रस्तस्य गृहाजिरे ॥३०॥ श्रेयांसं श्रेयसां स्थानं नृपाः सर्वेऽपि तुष्टुवुः। तापसास्तेऽभ्यधु थो भिक्षार्थी विविद कथम् ! ॥३॥ सोऽवदद् वीक्षिते नाथेऽस्मार्ष पूर्व निजं भवम् । सारथिर्वज्रनाभस्य केशवोऽहं पुरा भवे ॥३२॥ 8 स्वयंप्रभाभवात् पूर्व संगतः स्वामिना समम् । अष्टौ भवा अमुं यावद्-उत्पन्न: स्नेह वन्धतः ॥२३॥
इति श्रुत्वा नृपा हृष्टास्तापसाश्चाशिषं ददुः। जय त्वं दानिनां धुर्य! जय धीरशिरोमणे ! ॥१४॥ ४ श्रीनाभेयकराऽऽलवालवलये वर्षात् प्ररूढः पुरा, कृत्वा गेहजनस्य संमदमयोऽशुष्यन् स दानद्रुमः। ४संसिच्येक्षुरसैः कृतो यतिमुदे येनातिनव्यच्छविः, श्रेयांसः स नरोत्तमो विजयतां दानैकवीरश्चिरम् ॥३५॥ ४
तदारभ्य जने जाते पुण्यनैपुण्यतत्परे । विहरन भगवान् भिक्षां यथाकालं सलेभिवान् ॥६६॥ विदधे परिणां यत्र स्वामी तत्र स राजसूः । व्यधापयन्मणीपीठ-मन्यांहिस्पर्शरक्षकः ॥३७॥ साक्षादेतो प्रभोरंही इति ध्यायन् स पादुके। विधाय तत्राऽनुप्रातः पूजां भूजानिजोऽकरोत् ॥३८॥ श्रेयांसमिति कुर्वन्तं वीक्ष्याऽन्योऽपि जनोऽखिलः। प्रभुपारणस्य पृथ्व्यां कृत्वा पीठमपूपुजत् ॥६९॥ १ पु० न्यमन्त्र्य-।२ सद्-आरोहत्-शिखम् । ३ पु० भवान् । ४ पु० पारणा।
For Private & Personal Use Only
0000RPORNORo000000MROROROROOM
Jain Education Interational
www.jainelibrary.org