________________
॥२५॥
-७
पुण्डरीक- औषधेषु विविधेषु तदङ्गे लेपितेषु बहुशोऽपि सुवैद्यः । वृद्धिमेव तदगाद् दुरभित्वं पापिनीव नृपतावपकीतिः॥४ चरित्रम् .
विस्तृतेऽखिलपुरेऽथ कुगन्धे तां नरेन्द्र वचनेन वधूटीम् ।मुक्तवान् द्रुतमरण्यकृतेऽहं धामनि प्रचुररक्षक तदिनाद् मम सुतोऽद्भुतदुःखात् त्यक्तचारुशयना-ऽऽसन-भोज्यः।
वत्सराष्टकमसाविति यावन्म्लानघूर्णनयनोऽतिनिनाय ॥ १२ ॥ किं बहना? 8 सा कुगन्धतनुरस्ति वधूः किं स्नेहवान् मम सुतश्च किमस्याम् ।
त्वं प्रसथ मनसि स्थितमद्य संशयं हर तमोहरमत ! ( अवदत् पुण्डरीकः ) सोऽवदन्निजकृतश्रवणाय तामिहाऽऽनय वधू व्यवहारिन् ।
ऊचिवानयमधाऽतिकुगन्धामानयामि कथमत्र सभायाम् ॥१४॥ ४ श्रेष्ठिना निगदिते वच एतद्धषितो हरिणवेषसुरोऽसौ । पुण्डरीकचरणौ स्नपयित्वा दिव्यनीरभरमार्पयदाशु॥ स्वां स्नुषां मुनिपदस्नपनेनाऽनेन सिश्च दुरभित्वविभित्त्यै।
सोऽमरस्तमनुशिष्य मुदैवं श्रेष्ठिनं परिषदो विससर्ज ॥१६॥ १२
(दुरभिगन्धशरीरा विमला श्रीपुण्डरीकपदस्नपनेन सुगन्धशरीरा सती तत्सदसि आगता-) पुण्डरीकपदनीरनिषेकात् स्वां स्नुषां शुचिसुगन्धशरीराम् ।
आनयत् सदसि तत्र धनोऽसौ पूर्वजन्मकृतसंश्रवणाय ॥१७॥ ( आललाप पुण्डरीकः-) दु:खितां कृतनमस्कृतिमेतां कोरकीकतकरां विनिविष्टाम।
संनिरीक्ष्य विशेषदयालुराललाप कलंगीमुनिराजः ॥१८॥ १ सप्तम्यन्तम् । २ क्रियाविशेषणम् । ३ मधुरभाषायुतः ।
॥२५॥
00000000000000000moooooooom20000000000000085
Jain Educatintamahonal
For Private & Personal use only
pelibrary.org