SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ पराक ॥२४॥ सर्ग:-६ oooooooOOOOOOOOOOOOOOOowwwDOOOOOOOOZoooooo 8 इत्युक्त्वा विरतस्याऽस्य देवस्य स्वपितुः पदे । नत्वा भुवनभानुः स प्रोवाच स्वच्छ वीर्वचः ॥४७॥ महीयसाऽत्र मोहेन मुह्यमानं मनो मम । त्वया तात! परित्रातमहो! वात्सल्यमद्भुतम् ॥४७॥ (देव-विक्रमयोः संलाप:-) अथ श्रीविक्रमो राजाऽभ्युत्थाय निजविष्टरात् । शेखरीकृत्य हस्तौ च निजगाद सगद्गदम् ॥४७७॥ रति जयन्ती रूपेण वैजयन्ती कुलौकसः । सुतेयं मम सुतस्तेऽयं पुण्येन प्रवरो वरः ॥४७८॥ वरे वरवधूकेऽस्मिन् लावण्यामृतवारिधौ निश्चलीभूय देवेन्द्र निमिषत्वं कृतार्थय ॥४७९॥ मपंक्षिभिर्वाञ्छयमानः कन्योद्वाहमुरद्रमः। सुमनस्त्वयि दृष्टेऽपि फलत्यद्यापि किं न भोः!? ॥४८॥ इत्युदित्वा नृपं पाद-प्रणतं प्रेक्ष्य सोऽनरः। उत्थाप्य निजपाणिभ्यामालिङ्गय प्राह साञ्जसम् ॥४८॥ तव संश्लेषवाक्येन परितुष्टोऽस्मि भूपते ।। यत् त्वं कथय तच्छीघ्रं करोम्येव नरोत्तम ! ॥४८२॥ राजा प्रोवाच देवेन्द्र ! तव वाक्येन धर्मिणा । संसारमोहसुप्तोऽद्य ममाऽऽत्मा प्रतिबोधितः ॥४८३॥ किन्तु पुत्रस्तवैवाऽयं यदि राज्यमिदं मम । त्वद्वाक्येन वधूयुक्तः पाति द्वादशवत्सरीम् ॥४८४॥ तदादाय व्रतं पोतं निस्तरामि भवाम्बुधिम् । मध्येभूय विवाहं तत् कारयाऽऽशु सुरोत्तम ! ॥४८॥ इत्थमत्यर्थितो राज्ञा तयेति प्रतिपद्य सः। देवः कुमारीवीवाहं कारयामास हर्षितः ॥४८६॥ . अथो विवाहे निवृत्ते भीमदेवे च तस्थुषि । वरं कर्पूरमचर्या राजा राज्ये न्यवेशयत् ॥४८७॥ ततश्च, ( विक्रमो राजर्षिः-) गुरोधर्मप्रभाख्यस्य पादान्ते दान्तचेतसा । व्रतं जग्राह कुग्राहरहितोऽरिहितो नृपः ॥४८८॥ 8 अथो विक्रमराजर्षि नीत्वा भीमसुरोत्तमः । रङ्गशालापुरीमध्यमागाद् भुवनभानुना ॥४८९॥ हे देवेन्द्र ।। २ पक्षिण:-स्वजनाः, खगाश्च 00000000000aodeococcoocom १२ MOOOOOOOK ॥२४॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy