SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ॥२३९॥ पुण्डरीक - 8 इति विक्रमराजस्य निर्देशात् तलरक्षकाः । नगरी मण्डयामासुराशु चन्द्रोदयादिभिः ॥ ४४७|| विभातायां विभावय वर्याजितमन्मथाः । पृथ्वीनाथा अथाऽभ्येयुः सर्वे पूर्वनिमन्त्रिताः ॥ ४४८|| ततः श्रीविक्रमो राजा नृपानेतान् ससंभ्रमम् । सर्वान् संमानयामास रम्यावासप्रदानतः ॥ ४४९ ॥ इतो भुवनभानुं तमुपेत्य नृपनन्दिनः । इत्युपश्लोकयन्ति स्म प्रभाते सौप्रभातिकाः ॥४५० ॥ जय जय नृपपुत्र ! सवरित्रैः पवित्रः परिहर बहुनिद्रां मोहराजेन्द्रमुद्राम् । feng agaशुद्धिं निर्मलां स्वां च बुद्धिं स्मर जिनवरमन्तः पुण्यकृत्यैरनन्तः ॥४५१ ॥ इत्थं जागरितः प्रातःकृत्यं कृत्वा नृपाङ्गजः । राज्ञोऽमात्यैर्मुदा निन्ये स्वयंवरणमण्डपम् ॥ ४९२ ॥ गरिष्ठेषु निविष्टेषु तत्र भूपेषु भूरिषु । आसांचक्रे कुमारोऽपि चारुचामीकरासने ||४२३ ॥ ललनाभिः कृतोलूलूलालनाभिर्वृताऽथ सा । हंसीव कलकण्ठीभिरागात् कर्पूरमञ्जरी ||४९४ ॥ राधास्तम्भमथोपेत्य पूजयित्वा प्रमोदतः । तस्थौ सुस्थमनास्तत्र बालिका धृतमालिका ||४६५|| दिवाकराभिधो विप्रः प्राह भूमीपतीनथ । विधाय राधावेधं भोः ! कन्येयं परिणीयताम् ॥ ४५६ ॥ एवं दिवाकरेणोक्ते शक्तिमन्तोऽपि केचन । राधावेधाय नोत्तस्थुर्विलीनविषयस्पृहाः ॥४३७॥ तत्र केचिदनात्मज्ञा उत्थायोर्वी शसूनवः । अपरांद्धेषुतां प्राप्य जग्मुस्ते हास्यपात्रताम् ||४५८ ॥ श्रीविक्रमस्य संकेताद् विप्रः सोऽथ दिवाकरः । वीरं भुवनभान्वाख्यं तमुदस्थापयज्जवात् ॥ ४५९॥ मण्डलायितकोदण्ड-मण्डितायत सायकः । राधालीढमनाः प्रत्यालीढस्थानं स तस्थिवान् ॥ ४६०॥ ४ १२ 500000 Jain Educatio 0000000000000 00000 temational १ अपरानबाणताम् । For Private & Personal Use Only ∞∞∞∞∞∞∞ चरित्रम् सर्गः ६ ।।२३९॥ wwwlapelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy