SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥२३६॥ ४ १२ सा च हिरण्मयी लक्ष्मीः स्मेरचम्पकपुष्पकैः । कन्यया पूजनीया हि लातया शुचिवस्त्रगा ॥ ४०६ ॥ पुंसा संभाषिता येन लक्ष्मीमूर्तिर्वदिष्यति । वरः कर्पूरमञ्जर्यं नरः स भविता ध्रुवम् ॥ ४०७ ॥ सदाऽपि निष्फलान् दिव्यान् तानाम्रान् पञ्च यो नरः । करिष्यति फलैर्नवान् वरिष्यति स ते सुताम् ॥ राजन्! देव्या सरस्वत्या ममेति कथितं स्फुटम् । सोमदेवः स दैवज्ञ इत्युक्त्वाऽऽत्मगृहं ययौ ॥ ४०९॥ अमुं प्रासादमुर्वीशो हेमश्री मूर्तिसंयुतम् । अचीकरत् ततः सा च कन्याऽऽम्रानुप्तवत्यभूत् ॥४१०॥ ( दिवाकर - गुणाकरी विप्रो — ) तदा नियुक्तावावां च दिवाकर- गुणाकरौ । श्रीपूजायै तस्य पुंसः परीक्षायै च भूभुजा ॥ ४११ ॥ ( राधावेधस्तम्भ:-) कन्याषोडशवर्षेऽस्मिन् राज्ञा वीवाह‌मिच्छता। अष्टोत्तरशतहस्तः स्तम्भोऽस्त्युत्तम्भितो बहिः ॥ दक्षिणान्यष्ट चक्राणि चाष्टौ वामभ्रमीणि च । तत्राऽन्तरे चारुतरां नृपो राधामकारयत् ॥४१३॥ राधावेधकरो यः स्यात् स नरो मे सुतावरः । इत्युद्घोष्याऽशेषराज्ञो दृतैरामन्त्रयन्नृपः ॥ ४१४ ॥ ( कर्पूरम जरी तप: - ) निमन्त्रणानि भूपानां स्वस्वयंव रहेतवे । कर्पूरमञ्जरी श्रुत्वोपवासं विदधे तदा ||४१५ || राजाऽपृच्छत् कथं वत्से ! विदधासि न भोजनम् । भासयन्त्याऽऽस्य भासाऽग्रे ऽसावभाषत भामिनी ॥ येषां बीजानि वाग्देव्याऽर्पितान्येते द्रुमा यदा । फलिष्यन्ति तदा तेषां फलैर्भीक्ष्येऽन्यथा तु न || ४१७॥ उपवास जाते क्लान्तकाया कुमारिका । बभूव राजवर्गोऽपि चित्ते दुःखाकुलो भृशम् ॥ ४१८|| चतुर्थेऽय दिने राजा नत्वा लक्ष्मीं व्यजिज्ञपत् । देवि ! यद्येकचित्ता मे पुत्री तल्लभतां वरम् ॥ ४१९ ॥ इत्युक्त्वाsa श्रियः कृत्वा यावद् राजा विनिर्ययौ । तावत् त्वया कुमारैत्य लक्ष्मीः संभाषिताऽवदत् ॥ पूर्णमेकमभिज्ञानमिति प्रमुदितौ भृशम् । गत्वा व्यजिज्ञपावाऽऽशु कन्यां कर्पूरमञ्जरीम् ॥ ४२१ ॥ Jain Educationtemational For Private & Personal Use Only ∞∞∞∞ चरित्रम् सर्गः ६ ॥२३६॥ www.hinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy