SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ चरित्रम्. सर्गः-६ पुण्डरीक-४ देहं विहाय हंसोऽस्य यास्यत्युड्डीय दुःखतः । इतीव स्वपटीतुल्य-मूर्छया छन्नवान् विधिः ॥२३२॥ ॥२२३॥ 8 अन्ते धाच्या घटीयुग्मं तस्थौ सुबहुमोहतः। बन्धुवच्छीतलैर्वातैरालिङ्गयोत्थापितस्ततः ॥२३३॥ ४(इन्द्रजालम् -) यावदुत्थाय नेत्रे स्वे निमृज्याऽग्रे विलोकते। तावत् कुमारो मृतकं वस्त्रं पौरांश्च नैक्षत ॥२३४ अथाऽयं चिन्तयामास किमिदं महदद्भुतम् । मातङ्गस्य निजेशस्य किं किं दास्यामि चोत्तरम् ॥२३॥ चिन्तयन्निति वेगेन व्यावृत्तस्तत्र चागतः। न च श्वपचमैक्षिष्ट सर्वत्रऽऽलोकयन्नपि ॥२३६॥ प्रहरत्रितयं तत्र निविष्टः पृष्टवान् जनम् । परं नाऽकथयत्-कोऽपि चण्डतुण्डं तमन्त्यजम् ॥२३७॥ इन्द्रजालमुत स्वप्न-मतमोहोऽथ मे कुतः। ध्यायं ध्यायमिदं तुर्येऽहो मेऽसौ समुत्थितः ॥२३८॥ (नदी-) नदी स चन्द्रशिशिरा शिशिराम्भोभरभृताम् । स्लानाय नृपजोऽहनाय शिश्राय श्रेयसायतिः॥ लात्वाऽथ वाटिका गत्वा दत्वा स्वां स्वर्ण मुद्रिकाम् । नीत्वा सुमनसः सारान् स आर सुमना वटे॥ (वटगता जिनमूर्तिहीता-) कोटरान्तः समुद्गत्वा समुद्गकमसौ नतः। नीत्वाऽथ चन्द्रशिशिरांसरितं त्वरितं ययौ ॥२४॥ नद्यास्तटेऽथ विकटे निर्मलं स शिलातलम् । हेलया क्षालयामास सनमस्कारं स्मरन्नरम् ॥२४२॥ पेटकां तां स्वर्णकान्तां संस्थाप्य स्थाप्यमन्त्रवत् । धीरः स नीरमानैषीत् पद्मपत्रपुटैः स्फुटः ॥२४३॥ ( जिनपूजा-)मन्त्रपात्रं मुदा स्नानं कृत्वा हित्वाऽन्यचित्तताम् । पूजां भूजानिश्चक्रे विधिवद विधिवत् ततः योजिताभ्यां स्वहस्ताभ्यां परमेष्ठयाख्यमुद्रया। संसारातिहरं चारा-त्रिकं चके जिनेशितः ॥२४॥ 000000000000000000000000000000000000000000000000000000 00000000ooooooooooooo00000000000000000000000000000000 पृथिव्याः । २ आर-जगाम । ३ भूजानिजः भूपतिपुत्रः । ॥२२३॥ Jain Educatiemational For Private & Personal use only wwwigatinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy