________________
पुण्डरीक-8 इतोऽवदत् स मातङ्गः किं रे शीघ्रन यास्यसि। तस्मादप्यतिभीतोऽयं जगाम नृपजो जवात् ॥२१९॥
चरित्रम् ॥२२२॥
पुनविचिन्तयामास स गत्वा मृतकान्तिकम् । धर्मशास्त्ररसज्ञा मे रसज्ञा याचा कथम् ? ॥२२०॥ :-६ सत्पात्राणां करेभ्योऽपि यः शिश्रायोच्चतां पुरा । सोऽद्य मे दक्षिणः पाणिः किं याचेत मृताम्बरम् ॥२२१४ अथवा, येन हस्तेन मातङ्गेऽजिता स्वर्णाधमर्णता । अधमो याचतां घुग्रं फलत्यत्रैव पातकम् ॥२२२॥ यतः- स्वशरणस्य वधो गुरुतापनं पिशुनता शमिना पितृवचनम् ।
___ स्थपनिकाहरणं शिशुहिंसनं ध्रुवमिहाऽन्यभवेऽपि फलन्त्यहो ! ॥२२३॥ अतो हे हस्त! पापद्रोर्याश्चारूपं फलं स्फुटम् । आत्मनोपार्जितं भूक्ष्व मृतवस्त्रायाऽग्रतो भव ॥२२४॥ कुमारश्चिन्तयित्वैवं स्वकरं स पुरोऽकरोत । हर्षगौराऽथ गौराविरासीत पौराऽऽस्यतस्तदा ॥ अहो भाग्यं वसन्तस्य मृते यस्मिन्नसौ पुमान् । आचारसारस्वाकारः किश्चित् प्रार्थयतेऽद्य यत् ॥२२६॥ इत्युक्त्वा रोदनं मुक्त्वा नागरा रागसागराः । रत्नान्यारेभिरे दातुं उल्लोलनिजपाणिभिः॥२२७॥
(मृतस्य वसं याचितं भुवनभानुना--) राजसूनुः स दूनोऽन्तविधूयाऽऽत्मकरं रयात् । प्रोचे भोश्चण्डतुण्डस्य मातङ्गस्थाऽस्मि किंकरः ॥२२८॥ गृहणामि दानं नो कस्य किन्तु वस्त्रमिदं जवात् । इत्य?क्ते दृशावस्य पूर्ण हृदुःखवारिभिः ॥२२९॥ ईदृशोऽप्यन्तजस्यैष कर्मकृद् धिग् जगत्स्थितिः। इत्युक्त्वा मृतदेहस्थं वस्त्रं तेऽस्मै समापयन् ॥२३०॥ (भुवनभानुर्ममूर्च्छ-) मुक्तं तन्मृतवस्त्रं तैः स्वपाणी प्रेक्ष्य भूपभूः ।।
धिगू घिग में जन्म भूलोके वदन्निति मुमूर्छ सः ॥२३१॥8 १ गी:-वाणी । पोराणां-नागरिकाणाम्-आस्यत:-भुखात् ।
४॥२२२॥
"000000000000000000000000000000000000000000
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org