________________
पुण्डरीक
परिक सर्गः-६
तथाच, श्मशानं रक्षणीयं हि नेतव्यं मृतकाऽम्बरम् । एतत् कर्म त्वया पञ्च मासान् कार्यमहनिशम् ॥
कुमारश्चिन्तयामास हूं मातङ्गगृहे मया। भाव्यं कर्मकरेणेति हीनं हा! पाप्मनः फलम् ॥१५७॥ ॥२१७॥ अथवा- हितेऽहिते वा विहिते हि देही देहेन चेत् स्यादमुनाऽनृणोऽयम् ।
लाभो महीयानिति रेणुमुष्टि-क्षेपादिवोन्निद्रमृगेन्द्रनाशे ॥१५८॥ ( चण्डालगृहे किंकरो भुवनभानुः-) एवमार्यों विचार्योचे जातोऽहं किंकरस्तव । इमा मूर्ति पवित्रे तु क्वाऽपि मुश्चामि चेद् भण ॥१५९॥ उवाच श्वपचः सोऽथ को देवोऽस्ति तवाऽपि रे! पावित्र्यं किं परद्रव्यचौरगौरवदरग! ॥१६॥ अथवा गच्छ कुत्रापि मुक्त्वा गच्छ श्मशानके । एवं प्राप्य वचो भूप-पुत्रोऽचालिद तक्रमम् ॥१६१॥ गच्छन्नग्रे ददर्शाथ वदं शाखाभिरुत्कटम् । एकं विलोकयामास विकटं तत्र कोटरम् ॥१६२॥
(भुवनभानुना निजपा स्था जिनमूर्तिवंटे मुक्ता-) ४ स्वर्णसमुद्गकाऽन्तस्थां जलकान्तमणीमयीम् । नृपजो जिनमूर्ति तो मुमोच घटकोटरे ॥१६३॥
श्रीवीतरागमुद्दिश्य भूरिभावनया भृतः । स्थूलस्थूलानि चाऽश्रूणि मुश्चन्नूचे नृपाङ्गजः ॥१६४॥ पुराभवांहसा तां कां सातङ्कां कुदशां गतः । ययाऽहं मोचितः स्वामिन् ! त्वा देहात् तु न चेतसः॥१६॥ इतः श्मशानभूमिस्थो रे कर्मकृदिति ब्रुवन् । शब्दायते स्म मातङ्गस्तं भूपतिसुतं प्रति ॥१६६॥ श्रुत्वा भुवनभानुश्च वेगादागात्तदन्तिकम् । उवाच श्वपचः किं रे! सत्वरं नागमिष्यसि ॥१६७॥ कुमारः प्राह मां स्वामिन् ! आदेशेन प्रसादय । तुङ्गगर्वः स मातङ्गस्ततो वक्तुं प्रचक्रमे ॥१६८॥ रात्रावत्र त्वया स्थेयं मृतकाऽम्बरनीतये । चितादग्धानि काष्ठानि मीलयाऽऽनीय सर्वतः ॥१६९॥
NOOOOOOOOOOOOOO
00000000000000000000000000000000000000000OOccomics
Jain Educationnematonal
For Private & Personal use only
wwvjainelibrary.org