SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ॥२१॥ cocoonmo0000000000000000000000000000 ततोऽयं यामि मे स्वर्ण दीथा अन्यजन्मनि । इत्युक्त्वा स नरः कोपाटोपाद् गन्तुं प्रचक्रमे ॥१४४॥ तं यान्तं नृपजो रुड़वा बभाषे व्याकुलाक्षरम् । मया प्रमादमुग्धेन स्वर्ण निर्गमितं तव ॥१४॥ सर्गः-६ तथापि कथमप्यस्मिन् भवे मामणीकुरु । ऋणरज्जुनिषद्धस्याऽन्यभवे न भवेद् गतिः ॥१४६॥ धर्मिणोऽपि कृतिनोऽपि कदाऽपि स्याद ऋणं किमपि कस्यचिदेव ।। तस्य तत्र सकलेऽपि तु दत्ते संभवन्ति हि मुखानि परत्र ॥१४७॥ अन्यच्च- केऽप्युपाय॑ धनमात्मकलाभिर्जीवियन्ति जलदा इव जीवान् । छद्मनाऽन्यधनमन्त्र नयन्ति स्वोदराय वडवाग्निवदेके ॥१४८॥ किंबहुना? सतां मोक्षे वाञ्छा स तु सुकृततस्तच सुमते-गुरोरेवैषा स्यात् स्वयशमनुजत्वे च स गुरुः ॥ ऋणान्न स्वातन्त्र्यं परभवगतानामपि ततो-ऽधमर्णत्वं मा भूत-इति मतिमतां संमतमहो! ॥१४९॥ ऋणाद् महाभयं कुर्वन्ननेवाऽमुनाऽधुना। अनृणीभूयमिच्छामि भूत्वा कर्मकरोऽप्यहम् ॥१५०॥ बभाषे पुरुषः सोऽथ हो ! क्षत्रियपांसन । तव कर्मकरस्याऽपि योग्यं भोज्यं न मे गृहे ॥१५१॥ पुनः प्राह कुमारोऽसौ तव स्वर्णाधमर्णताम् । विहातुमीहेऽहमहो ! भोज्यं भुञ्ज ततः कथम् ॥१५२॥ किन्तु, सप्त प्रहरान यावत् कृत्वा कर्माऽखिलं तव । पाश्चात्ये दिनयामे तु बने भोक्ष्ये फलान्यहम् ॥१५३॥ स नरः प्राह किं कर्म समग्रं त्वं करिष्यसि। कुमारः प्रोचिवान् कस्त्वं कर्तव्यं किं किमस्ति ते ॥१५४॥8/ (स श्यामो नरः चण्डमुण्डश्चण्डाल:-) सगर्व स नरः प्राह विश्वे को नाम वेत्ति न । चण्डमुण्डाभिधं सर्वचण्डालाधिपतिं हि माम् ॥१५॥ ॥२१६॥ 000000000000000000000000000000000000005000 00000000000oe JainEducationinternational For Private & Personal use only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy