________________
पुण्डरीका
चरित्रम्
सर्ग:-६
MOO
DoooooMONOMORROWomeOR00000000000000
हृदयान्तर्दयां धृत्वा दाक्षिण्यामृतवारिधिः । कुमारस्तस्य तं ग्रन्थि जग्राह निजपाणिना ॥१२९॥ ४ गतेऽथ पुरुषे तस्मिन् कुमारे च निषेदुषि । तरौ तत्र विरौति स्म काकः क्रूररवो रयात् ॥१३०॥
कुमारश्चिन्तयामास कुरुतं कुरुते ह्यसौ । कष्टं तिष्ठति मे पुष्टं कथमस्मादपीह किम् ? ॥१३१॥ ( काकहृतं स्वर्ण-) इत्थं गूढविचारेण गूढचित्तो नृपाङ्गजः। शीघ्रं वायसवित्रास-कृते तं ग्रन्थिमक्षिपत्॥१३२॥ तदैव स्मृतिभाग याव-दुत्थायाऽऽशु विलोकते। तावत् कुत्रापि न प्राप सम्यक्त्वं पापवानिव ॥१३३॥ अलब्ध्वा तदसौ स्वर्ण राजसूनुयं चिन्तयत् । सूचित काकशब्देन यत् कष्टं तदुपस्थितम् ॥१३४॥ कुमारे चिन्तयत्येवं पुरुषः स पुरात् पुरः। समागत्य प्रमोदेन व वदूकोऽवदद् वचः ॥१३०॥ देव ! त्वदीयसाहाय्यात् कुटुम्ब सकलं निजम् । गृहं च ज्वलनादरमादक्षतं रक्षितं मया ॥१३॥ (भुवनभानोश्चिन्ता-) विजयस्व चिरं तत् त्वं सर्वोपकृतिकारकः । समर्पय मदीयं च स्वर्ण स्थपंनिकाऽऽहितम् ॥ उक्ते व्यक्तेऽथ तेनेति चिन्ताभूर्भूपभूरभूत् । याचतोऽस्याऽधुना किं किं वचो वच्मि वचस्यपि ॥१३८॥ काकस्य संमुखो ग्रन्थिः क्षिप्तः प्रत्येति को वचः ? । यद्यपी थमसंभाव्यं सत्यं वक्ष्ये तथाऽपि तु ॥१३९॥ यतः- ऊचुषो वचनं सत्यं तस्थुषो धर्मिणां पथि । यद् भाव्यं तद् भवत्वेवं सुखं चाऽप्यसुखं मम ॥१४०
एवं सुचिन्त्य चित्तेन त्रपापूरप्लुताक्षरम् । स्वर्णवृत्तं यथावृत्तं जगाद स विवादभाक् ॥१४१॥ ४ अथ, रक्षाक्षरं बभाषेऽसौ पुरुषः परुषाकृतिः। भो! भोः! स्थपनिकामोषस्त्वयाऽपि विहितः कथम् ॥४
स्वादृशा अपि चेद् द्रव्यं मादृशानां हि गृहणते । ततो जगति कः कस्य विश्वेऽस्मिन विश्वसिध्यति ॥१४॥४
OOOOộc
OOOOOOG
१ अपशब्दम् । २ भाषायाम-थापण । ३ चिन्तास्थानम् ।
॥२१५४
Jain Education international
For Private & Personal use only
ainelibrary.org