________________
पुण्डरीक -2 (सरः -) गच्छन्नथ पथि प्रौढवृक्षश्रेणिविराजितम् । सरः सरसमम्भोधि-सदृशं स दृशा पपी ॥ ११४॥ ततश्च - प्रक्षाल्य चरणौ जैनमूर्तिं नीत्वा नृपाङ्गजः । पपावपापः पानीयं पूत्वा पूतेन वाससा ॥ ११५ ॥ ॥२१४॥ ( प्रादुर्बभूव राक्षसी - )
४
पीत्वा नीरं सुतृप्तोऽन्तर्याविद् व्यावर्तते ततः । तावत् प्रादुर्बभूवाऽग्रे राक्षसी भीषणैक्षणा ॥ ११६ ॥ निजगाद कुमारं सा रौद्ररावाऽथ राक्षसी । भो ! युद्धं कुरु शीघ्रं वा मुञ्च शस्त्रं ममाग्रतः ॥११७॥ इति श्रुत्वा रणायैष यावदुत्तिष्ठते हठात् । तावत् तस्य करात् खड्गं हृत्वा खे राक्षसी ययो ॥ ११८ ॥ हस्तं वीक्ष्य विशस्त्रं स्वं विहस्तोतव्यचिन्तयत् । अहो ! अलक्ष्म्या देव्याऽयं प्रभावो दर्शितो निजः ॥ ११९ लक्ष्म्या वासो हि स्वङ्गः स्यात् गतः सोऽय कराद् मम । अथवा बाह्यभावैः किं यातैः सत्त्वं प्रयातु मा ।। निश्चित्येति कुमारोऽयं धीरधीरद्भुतप्रभः । अचलाया विलोकाय सहेलमचलत् ततः ॥१२१॥ ( वसन्तपुरम् - ) अथाऽसौ भूयसीं भूमिं भ्रान्तः श्रान्ततनुर्भृशम् । वसन्तपुर पार्श्वस्थमश्वत्थतरुमाश्रितः ॥ १२२ ॥ (दावानल:-) छायायां चलपत्रस्य स्थितो यावत् स निश्चलः । तावत् तत्र पुरे वहूह्निप्रदीपनमभूद् बहु || १२३|| दिवा तारकितं व्योम स्फुलिङ्गैः स्फुटितैस्तदा । त्रुटितैज्वलजालैश्च चक्रे सूर्यशतान्वितम् ॥ १२४॥
( श्यामाङझे नरः - )
८
१२
∞∞∞∞∞∞∞∞∞∞∞∞∞∞
अस्मिन्नवसरे कोsपि स्थूलः श्यामाङ्गकुत्सितः । नरो नगरतोऽभ्येत्येत्यातुरः प्राह भूभुजम् ॥ १२५॥ Parse सत्पुरुषोऽसीति वेद्मि सुन्दरदेहतः । खर्णपञ्चशतीग्रन्थिममुं पार्श्वे गृहाण तत् ॥ १२६ ॥ कुमारो न्यगदद् भद्र ! स्यादर्थोऽनर्थदो ध्रुवम् । ममाऽधुना विशेषेण दैवं हि विमुखं यतः ॥ १२७॥ पुरुषः सोऽवदद् विश्व-बन्धो ! बन्धोऽयमस्ति मे । चेत् त्वं गृहाण तद् वहने रक्षामि स्वकुटुम्बकम् ॥
Jain Educationmational
0000000002ad
For Private & Personal Use Only
चरित्रम् -
सर्गः ६
॥ २१४॥
www.julelibrary.org