SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ सर्गः-६ पुण्डरीक वक्रतक्रां च वक्रास्यां रौद्राक्षीं भीषणोदरीम् । लम्बोष्ठी लम्बदन्तां तां स विलोक्य विसिष्मिये॥ ॥२१३।। अथ प्रोचे कुमारं सा घोरघर्घरनिःस्वना । भो ! जातेऽपि निशाशेषे सखे ! जागर्षि वा कथम् ? ॥१०२॥8 कुमारः प्राह निद्रा नो विशेषात् तव दर्शने । किन्तु मे कथ्यतां का त्वं मूढेऽप्यत्र किमागमः ॥१०॥ सह सा प्राह हास्येन सहसा भूपतेः सुतम् । अलक्ष्मी नाम देवीं'मा विद्धि लक्ष्म्या हि वैरिणीम् ॥१०४॥ पुण्यं पापं च बन्धाय भवेऽस्मिन् भविनां भवेत् । अथो तबन्धविच्छित्त्यै लक्ष्म्य- लक्ष्म्यो विधिय॑धात् ॥१०॥ अहं पुनरधिका । यतःउपार्जयन्ति यत् पापं लक्ष्मीसंगेन ये नराः। तस्य प्रक्षालनायाऽहं तान् सेवे कृपयाऽन्विता ॥१०६॥ अधुना तु-तव देहेऽवताराय समायाताऽस्मि सांप्रतम् । यदि त्वं वद तद्यामि समेष्यामि तु बाधके । तस्यां जोषमुपेयुष्यामेवं प्राह नृपाङ्गजः। इदानीमेव हे देवि ! देहे मेऽवतर स्वर ॥१०८॥ उक्त्वा यावदिदं वाक्यं कुमारो विरराम सः। छायावत् तावदस्याने दृढावेशा विवेश सा ॥१०९।। (भुवनभानुर्दुःस्थः ) तदा विचिन्तयामास नृपजो निजचेतसा । वेदनीयोदयादय मामलक्ष्मीः समाश्रयत् ॥११०॥8 ४ (भुवनभानो: प्रवास:--) तस्या उपभोगाय यामि देशान्तरं ततः । कुटुम्ब मदभाग्येन दुःखं मा लभतां परम् ॥१११॥ 8 यतः- बन्धुभिः सह सुखं परिभोग्यं नैव दाखमिति सज्जनमार्गः। स्यानिशि ग्रहपतिर्ग्रहयुक्तो नाऽतेजसि न रुद्रजटासु ॥११२॥ 8 8 चिन्तयित्वेति जैनेन्द्रमूर्ति नीत्वाऽऽत्मना समम् । सत्वरं सत्त्वरङ्गेण निस्ससार स सारवान् ॥११३॥ १ नक्र-नासा । २ जोष-मौनम् । ॥२१३॥ 2000ooooooooooooooooook000000000000000000000 CooooOOOOOOOOOOOOOOOOOOOOOOO công, Jain Educatiemanal For Private & Personal use only Mahinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy