SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ चरित्रम्. : पुण्डरीक-8 नीत्वेति श्वपचवचस्तस्थौ स जगतीशजः। श्रीवीतरागं सर्वज्ञं मनसा संस्मरन्नरम् ॥१७०॥ (कश्चिद् योगी-) अथाऽस्मिन् समये कोऽपि योगी कम्प्रतनुभृशम् । कुमारपार्श्वमायासीद् रक्षेति वचनं वदन् ॥ कुमारः प्राह मा भैषीभों योगिन् ! वद किं भयम् । बभाषे प्रस्खलद्वर्ण वर्णी स पृथुवेपथुः ॥१७२॥ सुदुस्तपं तपस्तेपे षण्मासान् मन्त्रसिद्धये । किन्तु ब्रह्मव्रतं प्रान्ते मया खण्डितमेकदा ॥१७३॥ सिद्धिलोभादहं कृत्वा सत्त्वमत्र समागतः। आहतावाहितायां कोऽप्याविरासीच राक्षसः ॥१७४॥ पुष्टा गुरूपदिष्टाश्च मन्त्रास्तत्वासहेतवे । स्मृता अप्यफला जाताः खण्डितब्रह्मणो' हि मे ॥१७॥ यतः- (ब्रह्मचर्यवर्णना-) मन्त्र-तन्त्र-वरयन्त्रसमूहा औषधानि च यतः सुतपांसि । वाञ्छितानि ददतेऽत्र परत्र ब्रह्म तद् विजयतां व्रतराजः ॥१७६।। ४ तथाच, कीर्तिर्यतः स्फूर्तिमियति विश्वे यतः शुचिः स्यादिह देहमेतत् । यतश्च मोक्षः स भवेत् परत्र तद् ब्रह्म जीयादखिलव्रतेन्द्रः॥१७७॥ अथ, राक्षसो भुजमेकं मे बुभुजेऽहं च पीडितः। नंष्ट्रा त्वदीयं शरणं स्वरक्षायै समागमम् ॥१७८॥ 18 कुमारः प्रोचिवान् शीघ्र स्वां कन्यां मे समर्पय । यथा विधाय त्वद्रूपं राक्षसं प्रीणयामि तम् ॥१७९ 8 योगी प्रोचे कथं चारुवपुस्तस्मै प्रदास्यते। धर्मा-ऽर्थ-काम-मोक्षा हि संभवन्ति यतः स्फुटाः ॥१८०॥ ऊचे कुमारो भो योगिन् ! परार्थे प्राणदानतः। धर्मा-ऽर्थ-काम-मोक्षास्ते साधिता एव सर्वथा ॥१८१॥ किंच, नि:श्वासेन महोद्भूत-ज्वालया लक्षितो मया। पश्याऽयं राक्षसोऽभ्येति तद् योगीन्द्र ! तं द्रव ॥ 000000000000000000000000000000000000000050 00000wwwwwwwww0000000000000000 क १ खण्डितब्रह्मचर्यस्य । ॥२१८॥ Jain Educatio For Private & Personal use only belibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy