________________
पुण्डरीक
॥२०५॥
४
१२
षष्ठः सर्गः ।
( श्रीपुण्डरीको गजपुरं ययो— ) श्रीपुण्डरीको राजर्षिर्हर्षितैस्तैर्महर्षिभिः । समन्विन सुरैस्तैश्च विजहार विभुर्भुवम् ॥ १ ॥ श्रुतक्रमेण संक्रामन् क्रमाभ्यां क्रमतो मुनिः । ययोः गजपुरं देवैः सहितः सहितोऽङ्गिषु ॥२॥ इतश्च (सोमयशा नृपः — ) श्रीबाहुबलिनः पुत्रस्तत्र सोमयशा नृपः । ससैन्योऽत्र तदा राज-पाटीमाटीकते स्म सः ॥ पञ्चलक्षमितैर्देव - विमानैः व्योमनि स्थितैः । मुनिमायान्तमज्ञासीत् पुण्डरीकं स भूपतिः ॥ ४ ॥ ततः सोमयशा भूपश्चित्ते चिन्तितवानिति । अहो ! अंहोऽखिलं क्षीणमहो ! मेऽद्य महोदयः ॥ ५ ॥ यतः - पद्मिन्यो राजहंसाश्च जीताः सुतपस्विनः । यं देशमनुगच्छन्ति स देशः श्रियमश्नुते ॥६॥ पुत्रं श्रीभरतेशस्य गणेशमृषभेशितुः । यान्तं सिद्धगिरिं श्रीमत्पुण्डरीकं नमामि यत् ॥७॥
( प्रतीहारः सत्यसारः–) इत्थं सोमयशा राजा हृदा ध्यात्वा मुदा तदा । सत्यसारं प्रतिहारं प्रोचे प्रोत्सुकया गिरा । ( विजयसेनो मण्डलेशः, गुणारामः श्वा - )
हो विजयसेनाख्यं मण्डलेशं ममाऽधुना । गुणारामाभिधश्वान-युक्तमाकारय द्रुतम् ॥९॥ तथाऽयं सत्यसारोऽपि नीत्वा देशं नृपस्य तम् । गत्वा विजयसेनाख्यं मण्डलेश्वरमाहृत ॥ १०॥ ततो विजयसेनोऽयं स्वेन श्वानेन संयुतः । समागत्य ननामाऽऽशु श्रीसोमयशसं नृपम् ॥ ११ ॥ नृपो विजयसेनं तं प्रोचे भोः ! त्वरितं चल । यथा श्रीपुण्डरीकाग्रे स्वरूपं कथ्यते शुनः ॥ १२ ॥
१ अंहः पापम् । २ मेघाः । ३ गणधरम् ।
Jain Education International
For Private & Personal Use Only
चरित्रम्
सर्गः - ६
॥२०५॥
www.jainelibrary.org