________________
पुष्परीफ
OOOOOOOOOOOOOOOOOOOOOOOOOOo0oCÓ
( लक्ष्मीधर-श्रीपुण्डरीकयोः समागमः-) अथो पथोऽनेन दिने चतुर्थे वयं समेता मृगवेष! देव!। चरित्रम् अस्मत्प्रणामं मुचकुन्ददेवश्चक्रे तदा संनतचम्पकेन ॥४८८॥
सर्ग:कृत्वाऽऽग्रहं गाढतरं ततोऽस्मानस्थापयद् मित्रविबोधहेतोः ।
स्थितेष्विहास्मासु स एव देवः संप्रेर्य लक्ष्मीधरमानिनाय ॥४८९॥ भो मृगवेष! तत्त्वं श्रृणु- आचाम्लचन्द्राद् मुदितः स चन्द्रश्चन्द्रातपत्रं प्रददौ तदाऽऽस्ये, किंबहुना ?
पृष्टं त्वया यद् मृगवेष! देव! सर्व तदस्माभिरिदं न्यवेदि ॥४९०॥ राजानं विलोक्य- भो! भूप! लक्ष्मीधर ! पूर्वजन्म विचिन्तय त्वं सकलं स्वकीयम् ।
इत्थं गदित्वा विरराम साधुः श्रीपुण्डरीकोऽत्यभिरामवाक्यः ॥४९१॥ ( लक्ष्मीधरस्य जातिस्मरणम-) लक्ष्मीधरः साधुवचः समग्रं विचिन्तयन्नेकमना बभूव ।
देहेऽथ म कलिते स्वजाति सस्मार स स्माररसेन हीनः ॥४९२॥ 81 इतश्च- शीघ्रं मुचकुन्ददेवो भूत्वाऽथ दृश्यः किल चम्पकः।
शीतोपचारैः प्रचुरैर्नरेन्द्रं चकार चैतन्ययुतं तदैव ॥४९३॥ अथो मुनीन्द्रं मृगवेषदेवो नत्वा बभाषे भगवन् ! जवेन ।
तं चन्द्रमाहातुमहं व्रजामि भूमीभुजे छत्रमिदं ददौ यः ॥४९४॥
Mooooooooooooooooooo000000000000000000000000000000
१ पुस्तके तु 'वोध' इति, स च पाठः अवस-वतंसवत् समुचितोऽपि भवेन् । २ स्मरस्य अयं स्मारो रसः-तेन हीन इति ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org