________________
पुण्डरीक
॥१९७||
0000000000000000000000000000000000000000000000000
अष्टापदादेविमलाचलेन्द्रं गन्ता तदा ते नगरीमुपेता ॥४८०॥ ततश्च- श्रीपुण्डरीकं प्रणमस्यतस्ते नरेन्द्र ! बोधावरणीयमेतत् ।
क्षयं गमिष्यत्यखिलं समस्त-पापेन सार्धं हि भवोद्भवेन ॥४८१।। | ज्ञानान्तराये प्रलयं प्रयाते मुखेन तस्य स्वभवं नरेन्द्र ।।
लक्ष्मीधर ! त्वं शृणुया यतोऽत्र तिष्ठन्त्यपापे सुगुरूपदेशाः ॥४८२ इतीरयित्वा विरतेऽथ देवे जगाद लक्ष्मीधरभूप एषः ।
___ श्रीपुण्डरीकागमनं सुरेन्द्र ! कृत्वा प्रसादं कथयेममाग्रे ॥४८३॥ तथेति सद्यः प्रतिपद्य वाक्यं तिरोबभूवाऽथ तदा स देवः।।
लक्ष्मीधरो भावधरो नितान्तं श्रुत्वेति नित्यं यतते स्म धर्म ॥४८४॥ ततः सुरोऽयं मुचकुन्दनामा भवाद् वयस्यं निजमुद्दिधीर्षः।
विचिन्तयामास यदि प्रयामि स्वर्ग तदा विस्मरतीति कार्यम् ॥४८॥ श्रीपुण्डरीकस्तु दिने चतुर्थे भूमीमिमामेष्यति साधुयुक्तः ।
___स्थास्यामि तस्मान्नगरीवनान्तश्चारौ तरौ चम्पकनामनीह ॥४८६॥ इत्थं स्वचित्तेन विचिन्त्य देवस्तस्थावथो चम्पकशाखिशाखाम् ।
परोपकाराय यतो महान्तो दत्तावधानाः सततं भवन्ति ॥४८७॥ १ ज्ञानावरणीयम्। २ उद्वारं कर्तुमिच्छुः ।
8॥१९७॥
390000000000000000000000000000000000000000
DOOR
Jain Education International
For Private & Personal use only
www.jainelibrary.org