________________
पुण्डरीक
॥१९३।।
20030000000000000000000000000000000000000
(भभिनन्दनं प्रति अमरशेखरस्य प्रश्नः-) ममायुरद्यापि कियत् समस्ति भव्योऽस्म्यऽभव्योऽप्यथ दरभव्यः
निगद्यतामद्य मयि प्रसद्य सद्यश्च संदेहगणं विभिन्द्धि ॥४५०॥ ( जिनस्य उत्तरम्-) जिनोऽवदत् भो ! दिवसान् दशैवा-ऽवशिष्यते ते खलु जीवितव्यम् ।
भवे द्वितीये भरतस्य मध्ये शत्रञ्जयाद्रौ भवितव मोक्षः ॥४५॥ ( अमरशेखरेण गृहीतमनशनम् - ) इत्थं निशम्याऽमरशेखरोऽयं जिनेन्द्रपादौ प्रणयात् प्रणम्य ।
जग्राह तत्राऽनशनं मुनीशोऽनीशो भवे स्थातुमघौघघोरे ॥४५२॥ विनश्वर विश्वमथो निरीक्ष्य विलोक्य मित्रं च तथा स्वभावम् ।
वसन्तसेनोऽपि जिनं प्रणम्य संन्यासविन्यासमसौ ययाचे ॥४५॥ स्वामी भाषेऽथ वसन्तसेनं महामुने! द्वादश वत्सराणि ।
व्रतं प्रपाल्य प्रथमे च कल्पे गन्तासि तद् माऽनशनं ग्रहीस्त्वम् ॥ ४५४॥ (श्रीअभिनन्दनजिनानुमत्या चन्द्रविमाने चन्द्रेण सह आरुह्य अमरशेखर-वसन्तसेनी श्रमणी तीर्थानि वन्दितुं जग्मतुः-) प्रभु प्रणम्याऽथ स चन्द्रदेवो व्यजिज्ञपन्नाथ ! मुनी इमो तत् ।
प्रस्थाप्यतां शाश्वततीर्थनाथमूर्तीः प्रणन्तुं हि मया सहाऽद्य ॥४५॥ चन्द्रोऽथ लब्ध्वाऽनुमतं जिनस्य विकृत्य शीघ्रं रुचिरं विमानम् ।
वसन्तसेना-ऽमरशेखराख्यौ विगृह्य स व्योम्नि ययौ जवेन ॥४५॥ 'मनशनम्' इति प्रकरणतो गम्यते ।
200000000000000000000000000000000000000000000000
॥१९३०
Jain Education International
For Private & Personal use only
www.jainelibrary.org