________________
पुण्डरीक
PROOO
चरित्रम् सर्गः-५
॥९८७॥
ĐOOOOOOOoooooooooooooooxx0O
आरुह्य वेगेन विहायसा तो लक्ष्मीपुरं जग्मतुरग्रतोऽपि ॥३९७॥ ततश्च(विवेश लक्ष्मीपुरम् अमरशेखर:-) विस्मापयन्नेष पवित्रयंश्च जगन्त्युदात्तविमलैश्चरित्रैः।
खपुष्पंतां निश्चलयन् विमानरयान्नरेन्द्रः स रयात् पुरं स्वम् ॥३९८॥ समृद्धितः प्रोन्मुखयन् विमुग्धान् दक्षत्वतः संमदयन् विदग्धान् ।
समुत्कयन प्रीतिभराद् वयस्यानानन्दयन्नागमतः स्वबन्धून ॥३९९॥ सोपायनागभिगम्यमानः सुवन्दिवृन्दैरभिनन्द्यमानः।।
विलासिनीलास्यविलास्यमान-विलोचनो दानभरं ददानः॥४००॥ प्रवीज्यमानो वरचामराभ्यां संन्युञ्छयमानो विधिना वधूभिः ।
____ संसेव्यमानः सकलैनरेन्द्रवर्धाप्यमानश्च पुरोहितौः ॥४०१॥ ग्रामान प्रयच्छन् जिनमन्दिरेभ्यस्तदा त्यजन राजकरान जनेभ्यः ।
लक्ष्मीयुतः स्वर्गपुरं विवेश लक्ष्मीपुरं सोऽमरशेखरेशः ॥४०२॥ ( चतुर्भिः कलापकम् ) (पिनोः प्रणामा:-) पूर्वोदितस्तत्र वसन्तसेन-वाक्यैः प्रहृष्टां किल चन्द्रलेखाम् ।
ननाम गत्वा जननी जनेशो लीलावतीशोभितपृष्ठभागः ॥४०३॥ श्वश्रू स्वकीयामथ चन्द्रलेखां देवीं विवेकाद् रिपुमल्लपुत्री ।
१ खे उडायमानानि विमानानि खपुष्पसदृशानि भान्ति इति एषा कल्पना । २ उत्सुकयन् । ३ न्युञ्छनं भाषायाम्-ओकार-दुखणां लेवा । ४ भाषायाम्-वधावातो।
oorcoooooooooooooooooooooooooooor
४॥१८७॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org