________________
पुण्डरीक
चरित्रम्
.
५
॥१८६॥
49000000000000000000
चक्रेश्वरीदेवतया प्रदत्तं श्रीधूमकेतो रुचिरं विमानम् ।
पुष्पावतंसाभिधमानिनाय रत्नध्वजोऽस्य त्वधिरोहणाय ॥३९०॥ इतः प्रमोदाद् रिपुमल्लराजो रत्नावतंसाभिधमुत्पताकम् ।
__ वैरोठ्यया दत्तमतिप्रधान संढोकयामास निजं विमानम् ॥३९१॥ प्रभावुभौ यक्षनिभौ समान-प्रभौ स्फुरन्निर्मल भक्तियुक्तौ ।
कृताग्रही वीक्ष्य स निर्विवादमुवाद भूपोऽमरशेखरोऽथ ॥३९२॥ आकर्ण्यतां श्रीरिपुमल्लभूप ! रत्नध्वजं मत्पितृमित्रपुत्रम् ।
संमानयिष्यामि बुधा हि मैत्र्यं स्वाजन्यतः कोटिगुणं भणन्ति ॥३९३॥ यतः( प्रेम जयति-) पयोधेर्नो पुत्रं त्रिदिवतर-लक्ष्मी-सुरगजा-ऽमृतादीनां नो वा सहभवमिहेनं बुधजने ।
निशानाथं दूरस्थितजलभवानां हि कुमुव्रजानां यद् बन्धुं वदति तदिदं प्रेम जयति ॥३९४॥ इत्योचितीचारुतरं विचारमोच्चं वचः प्रोच्य स धूमकेतोः।
विमानमध्यास्त समस्तविद्या-धराधिराजेषु भृशं स्तुवत्सु ॥३९५ 8 युक्ता सखीनां किल सप्तशत्या वृता तथा कञ्चुकिभिः प्रधानैः।
लीलावती स्वस्य पितुर्विमानं तदाऽऽस्रोह प्रियवाक्यमाय ॥३९६॥ इतश्च- वसन्तसेनो मणिचूलवीरो विमानमङ्गन हृदा तु हर्षम् ।
200orrowWOOOOORoomooooooooooooro
soo
१ प्रभा-सप्तम्यन्तम् । २ सि.हे. “ अधेः शो-स्था-ऽऽस आधारः" इत्यनेन आधारेऽपि द्वितीया ।
॥१८६॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org