SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ परिवरः सर्गः-५ पुण्डरीक-8 धूमध्वजोऽथामरशेखरं तं गजस्थितो वीक्ष्य तुरंगमस्थम् । स्वयं स शिश्राय हयं यतोऽत्र क्षत्रव्रतान्नैव चलन्ति धीराः ॥३२५॥ ॥१७७॥ भटेषु तत्राऽमरशेखरस्य पुरोऽप्यऽतिष्ठत्सु स धूमकेतुः। ससंगरः संगरहेतवेऽगान स्थातुमिष्टे हि तदा यलिष्ठः ॥३२६॥ अस्त्राणि शस्त्राणि समागतानि स्वहेलया ताववहेलयन्तौ। न प्रापतुः पारमरं सतृष्णावभव्य-भव्याविव संभवस्य ॥३२७॥ ___(ममज्ज भूम्याम् अमरशेखरः-- ) उद्विग्नचित्तोऽथ स धूमकेतुर्मुक्त्वा हयं तं गदया जघान । तुरंगयुक्तोऽमरशेखरस्तद् ममज भूभ्यामिह जानुमानः ॥३२८॥ ततोऽनुभूय क्षणमेष मूर्छा पादौ समाकृष्य पुनः सचित्तः।। तदा गदामात्मकरे गृहीत्वाऽवचूर्णयामास शिरांसि शत्रोः ॥३२९॥ ४ यावन्ति खण्डानि कुमारराजश्चकार शत्रोः शिरसां रयेण । तावन्ति वर्षन्ति शरावलीभिर्जातामि रूपाणि तु धूमकेतोः ॥३३०॥ ४ तदा कुमारोऽपि वसन्तसेनस्तूणं गृहीत्वा धरणेन्द्रदत्तम् । शत्रोः शरीराणि शरैविनीलविव्याध स व्याधवदेणवृन्दम् ॥३३१॥ अत्रान्तरे दूरगतः सुरेन्द्र-दत्तस्त्वजानंस्तनयं स्वकीयम् । १ संगरसहितः । २ युद्धहेतवे। ३ संसारस्य । ४ हरिणवृन्दम् । 300000000000000000000000000000000000000000000000000 xosooooooooooooooooooooo १३ ॥१७७॥ Jain Educatiemanal For Private & Personal use only Jayanelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy