SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ चरित्रम् सर्गः-५ महेन्द्रराजं निहतं निशम्य स पद्मभूपोऽथ मुमोच बाणम् । काण्डेन विद्धः किल तेन कालोऽकाण्डेऽपि जातः सकलोऽपि नीलः ॥३०९॥ (कालं गतः कालमुख:-) विषेण विद्धं तमवेक्ष्य कॉलमुखं गतं कालमुखं जवेन । क्रुडो दधावे मणिचूलवीरः शस्त्रैस्तथाऽस्त्रैः सहितोऽहितं तम् ॥३१०॥ स पद्मभूपोऽथ मुमोच बाणं तमोभृतं विश्वमतो बभूव । शरं स वीरस्तु विमुच्य भानु-शतैररेः सैन्यमतापयच्च ॥३११॥ ( पद्मराजो हतः-) मुक्त्वा शरं पद्मनृपो हिमेन प्रकम्पयामास तनूं रिपूणाम् । वीरस्तदैवाऽग्निशरेण भस्मीचकार पद्मं सविकारचित्तम् ॥३१२॥ निहत्य पद्मं मणिचूलवीरश्चचाल यावद् विकरालमूर्तिः । रत्नध्वजेनाऽऽशु शरेण तावत् त्रिंशद्गजेन्द्रः सहितो हतोऽयम् ॥३१३॥ (हतो मणिचूलधीर:-) चन्द्रावतंसो मणिचूलवीरं हतं पिलोक्याऽनवलोक्यरूपः। रत्नध्वजं तत्र महाभुजं तं योधः स्फुरत्क्रोधयुतो रुरोध ॥३१४॥ चन्द्रावतंसोऽथ शरद्वयेन चिच्छेद कौँ युगपत् तदीयो। उवाच रत्नध्वजमेष गच्छ जीव स्वकीत्य हि मयाऽसि मुक्तः ॥३१५॥ सटोपकोपः स्फुटखेटकेन खड्गेन युक्तः स हयं विमुच्य । यावद् दधावेऽथ तदाऽसिमस्य चन्द्रावतंसः शकलीचकार ॥३१६॥ १ असमयेऽपि । २ नील:-रक्तराहितः-मृतः। ३ कालमुखं मरणम् । ४ अहितः शत्रुः । ५ किरणशतेः। एतत् शरं तापकरम् । ६ एतद अस्त्रं हिमकरम् । ७ एतत् शरं दाहकम-भूयन्ते हि महाभारते अग्न्यस्त्रादीनि शवाणि । ८ दुर्बुध्यत्वेन न द्रष्टुं शक्यं रूपं यस्य । ९ खण्डं चकार । 0000000000000000000000000000000000000000000000000002 ॥१७५॥ Jain Education inahonal For Private & Personal Use Only www.iRelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy