________________
पुण्डरीक॥ १७१ ॥
१२
( दूतस्य शिक्षा - ) श्रुत्वेत्यमात्यस्य वचः स्वसैन्यं संस्थाप्य दूतस्य ददौ स शिक्षाम् । भोः ! प्रोद्धतैरेव वचोभिरेनं युद्धोद्यतं त्वं कुरु न प्रशान्तैः ॥ २७९ ॥ (दृतवाणी - ) ततः स दूतो जवतोऽभ्युपेत्य धूमध्वजं वाचमुवाच वाग्मी ।
हितं सुनीत्या सहितं मितं मे वचः शृणु त्वं नृप ! सावधानः ॥ २८० ॥ यद् भूपविद्यालये त्वयाऽस्य सुतो हृतो यच विवाहमध्ये ।
पद्मः कुमार्यौ विचकार विघ्नं तेन प्रकोपाकुलितोऽरिमल्लः ॥ २८९ ॥
सर्वाभिसारेण रसाधिपस्त्वां सरेन्नरं सारभृतः प्रधानैः ।
क्रुद्धोऽपि रुद्धोऽस्ति तव प्रबोध- हेतोस्ततोऽस्मि प्रहितो हिताय ॥ २८२॥ ( राज' बभाषे ) विचार्य तत् त्वं निजसौख्यतत्त्वं संघानमाधाय समधिनैधि ।
श्रुत्वेति दूतस्य वचः स राजा भुजं निजं प्रेक्ष्य बलाद् बभाषे ॥ २८३ ॥ कण्डूलदोर्मूलभुजानुकूलं वाक्यं प्रवेक्तुः कनकस्य जिह्वा ।
एतस्य दूतस्य तु मन्त्रिराजः ! प्रदीयतां मत्प्रमदेन दानम् ॥ २८४॥ (दूतसंमुखं वश्य— ) बल्लाञ्च विद्यवलये यथाऽस्य सुतो गृहीतोऽद्य तथाऽरिशीर्षैः । स्वशौर्यदेवीपुरतस्तु नालिकेरीफैलस्फोटनिकां करिष्ये ॥ २८५ ॥
( कनकस्य जिद्दवा - )
१ अरं शीघ्रं सरन् । २ समाधिना समाहितो भव । ३ प्रवक्तुर्दूतस्य । ४ विद्यामण्डले । ५ देवीपुरतो हि नालिकेरस्फोटो विश्रुतः, अत्रापि स्वशौर्यदेवी पुरतःशत्रुशीर्षनालिकेरस्फोट: । ६ नालिकेरम् ।
Jain Educatintemational
For Private & Personal Use Only
चरित्रम्
सर्गः - ५
॥ १७१ ॥
www.inelibrary.org