________________
चरित्रम्.
॥१७०॥
पुण्डरीक
अक्षौहिणीभिर्नवभिमितं तद् बभूव सैन्यं रिपुदैन्यदायि ॥२७१॥ भेरीभा कारभारैः सुरपतिसदने गायतस्तुम्बरोस्तु स्थानं यच्छन् हयानां स्थपुटखुरपुटस्फोटनस्तालदानम्।।
सर्गः-५ कुर्वन् पातालमूले भुजगपतिपुरो नाटके जायमाने सोऽचालीद् दिग्गजेन्द्रानपि हि बधिरयन् प्रौढढक्कादिनादैः॥४ ( रथावर्ती गिरि:-) ततो रथावत गिरौ ससैन्यं स्थितं नृपस्तं मणिचूलवीरम् ।
जगाद शीघ्रं चल भो! यथाऽथ च्छिनद्मि तं छद्मपरं स्वशत्रुम् ॥२७३॥ ( राजमृगाड़ो मन्त्री-) मन्त्री ततो राजमृगाङ्कनामा राजानमानम्य तदा जगाद।
स्वामिन् ! समाकर्णय नीतियुक्तां विज्ञप्तिमेकां सचिवैकचित्तः॥२७४॥ ( नीतिशास्त्रम्-) रागस्थितौ तीव्रतरं व्रतं यन्मार्गश्रमे यद् बहुनीरपानम् ।
___ यत्कोपतः प्रोद्धतशत्रुयुद्ध तन्नायतावायतसौख्यहेतुः॥२७५॥ तथाचरात्रौ स्वनेत्रे विनिमील्य यानं सिद्धान्तमप्रेक्ष्य तपोविधानम् ।
शत्रोरनालोक्य बलप्रयाण नैतत् प्रभो ! चारुविचारचारि ॥२७६॥ अन्यच्च(अभंगेहम्-) यथाऽभ्रगेहोगतः प्रदीपो वातोपघातैन विनाशमेति।।
तेजस्वितेजोऽपि तथा प्रशान्तेमध्यस्थितं कोऽपि विहन्ति नैव ॥२७७॥ प्रौढप्रवीरक्षयहेतुयुद्धं नीती निषिद्धं नृप ! सर्वथैव ।।
तच्चेत समानादिभिरेति सेवां रम्यं तदा नेत्थमतो रणं स्यात् ॥२७८॥ १ तुम्बरुः-देवगायको गन्धर्वः । २ आयतौ भविष्यति । ३ गमनम्। ४ अभ्रगेहम्-अत्रेण रचितं दीपरक्षागेहम्-भाषायाम्-' अबरखनुं फानस ' १५ सामादिभावैः ।
४ ॥१७॥
0000000000000000000000000000000000000000
5OOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOO
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org