________________
पूण्डरीक
0000000000४
HoroMOMWWomwww00000000000000boor
उलूलुकल्लोलकलेषु तत्र चतुर्पु जातेषु च मङ्गलेषु ।
चरित्रम्. प्रयाच्य किञ्चित् मम पुत्रिकायाः करं विमुश्चेति नृपस्तमूचे ॥२४२॥ 8.
सर्गः-५ (धनुस्तूणस्य याचनम् - ) ऊचे विहस्याऽमरशेखरोऽपि धनुःसमं दिव्यशरप्रपूर्णम् ।
तूणं प्रतूर्ण वसुधाधिनाथ ! यच्छ प्रयच्छ त्वमतो मतं मे ॥२४॥ राजाऽवद् देव ! गुणैस्त्वदीयस्तनूभुवं स्वाङ्गसुवं ददामि।
पुच्यास्तु भाग्येन धनुर्मयाऽऽप्तं तुणं त्वसाध्यं कथमर्पयामि ॥२४४॥ (चिन्तामणि:-) तस्मादिहाऽऽस्माककुलेऽस्ति पूज्यश्चिन्तामणिश्चिन्तितवस्तुदाता।
एनं गृहाणेति निशम्य हर्षान्नीत्वा मुमोचाऽथ करं प्रियायाः ॥२४॥ ( प्रतिज्ञा-) इत्थं विवाहस्य महोत्सवेषु कृतेषु राजाऽथ कुमारराजः।
संस्थाप्य चापं कनकासनेऽसौ संपूज्य संयोज्य करौ जगाद ॥२४६॥ त्वां चाप ! यद्यामहं सुभाग्यान्न तत् कथं त्वत्सदृशं निषङ्गम् ।
पूर्णा यदैषोऽत्र मनोरथः स्याद् यास्यामि भोक्ष्यामि तदाऽन्यथा न ॥२४७॥ (नमस्कारो मन्त्रः-) इति प्रतिज्ञाय गिरं स्थिरं तं वीक्ष्य स्थितं भूपसुतं वसन्तः ।
अरं स्मरन् पश्चनमस्कृति सोऽप्यस्थाद् महास्थामनिकामधाम ॥२४८॥ इत्थं स्थिती तौ नृपतिश्च मत्वा परिच्छदेनाऽल्पतरेण गत्वा ।
प्रमोदतो विस्मयतोऽप्युपासामास त्रिरात्रं स विवेकपात्रम् ॥२४९॥ १वीजनकृतो विवाहगीतध्वनिः । २ प्रापम् ।
॥१६६॥
ooooooooo000000000000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org