________________
पुण्डरीक
হিমু,
॥१५५||
सर्गः-५
00000000000000000000000000000000000000000000000000
स कल्पवृक्षः स तु कामधेनुश्चिन्तामणिः सैष सुधा स एव ।
योऽनेकदुःखाकुलजन्तुजातोपकारकारी दृढधर्मधारी ॥१५६॥ ( वसन्तसेनो जगाद-) वसन्तसेनो हृदयप्रमोदसुधागिरं साधुगिरं जगाद।
नरेशसूनो! बहुदुःखदीनोऽप्यहं त्वयैवोपकृतोऽग्रतोऽपि ॥१५७॥ यथा नरः कोमलकल्पवृक्षच्छायासु तृप्तश्च गतश्रमः स्यात्।।
अहं तथा तद्वचनैः सुशीतैर्मन्मित्रवार्तासहितैः प्रहृष्टः ॥१५८॥ प्राणाधिकं यद् भवता वयस्यं प्रकाश्य दत्तं मम जीवितव्यम् ।
महोपकारो विहितः स एव परात्मवद् दर्शयता तमेवम् ॥१५९॥ (योम्नि विमानम्-) इत्याप्तमौनेऽथ वसन्तसेने व्योमाङ्गणे निर्मलकान्तकान्ति ।
प्रादुर्बभूवाद्भुतमेकमुच्चैविमानमाश्चर्यकर पुरस्तात् ॥१३०॥ नरो विनिर्गत्य विमानमध्यात्-चन्द्रावतंसं प्रणनाम भक्त्या ।
क्षेमोऽस्ति भो! भो! मणिचूलवीर ! तदा मुदा तं सहसा स आह ॥१६ चन्द्रावतंसो मणिचूलपृष्टो वृत्तं समाख्याय निजं समग्रम् ।
वसन्तसेनं कृतजीवदानं निर्दिश्य स स्वेन समं निनाय ॥१६२॥ वसन्तसेनं स्वकरे गृहीत्वा विमानमारूरुहदादितोऽथ ।
स्वयं समारुह्य ततश्चचाल कुमारराजो मणिचूलयुक्तः ॥१६॥ १ या सुधां गिरति ताम्। २ आरोहणं कारयामास ।
>0000000000000000000000000000000000000000000000000%
॥१५५॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org