________________
पुण्डरीक॥१५२॥
४
१२
सुतं शिलायां बहुलोहकीलैः संकीलितं सत्पुरुषं ददर्श ॥ १३३ ॥
तं मूर्च्छितं वीक्ष्य कृपाभृतोऽयं गिरेर्झरात् साष्टशतं चलूनाम् ।
तेनैव मन्त्रेण ततोऽभिमन्त्रय चिक्षेप साक्षेपमनास्तदङ्गे ॥ १३४ ॥
( मन्त्रप्रभावात् तस्य पुरुषस्य मूर्च्छापगम: - ) तन्मन्त्रपूतोदकसेकतोऽथ तुष्णींबभूवुः किल लोहकीलाः । नरोऽपि चैतन्यधरः क्षणेन प्रोत्तस्थिवानुन्मिषताक्षिपद्मः ॥ १३५ ॥
( वरयाचनाय प्रार्थनम्-- ) कृतं विशल्यं करणं मनस्तु प्रयाच्य किंचित् कुरु मे महात्मन् ! | वसन्तसेनं विहितोपकारं वीक्ष्याऽवदत् सोऽथ कृतज्ञधुर्यः ॥१३६॥
Jain Educationemational
( तद्वत्तम्- ) ऊचे वसन्तो नहि देव ! याचे परं वद त्वं कथमेक एव ।
संपीडितः केन च कान्तकान्तिकायेन संसूचितभूपभावः ? ॥१३७॥
(वैताये जयन्ती - ) असौ बभाषे बहुधीरवीर ! हीराख्यवैताढ्यगिरौ समस्ति । वरीयसी निर्मलरत्नहम्यैर्गरीयसी भो ! नगरी जयन्ती ॥ १३८ ॥ ( रिपुमल्लो नृप:, रत्नमाला राज्ञी— ) तस्या नरेन्द्रो रिपुमल्लनामा कामाधिको जेतृतयाऽऽभया च । सदा मनोनर्तनरङ्गशाला भार्या तदीयाऽजनि रत्नमाला ॥१३९॥ ( तत्पुत्रः—चन्द्रावतंसोऽहम् —लीलावती मम भगिनी — ) अनेकसंग्रामजयोर्जितौजाश्चन्द्रावतंसोऽस्मि १ चलुः -- जलाञ्जलिः । भाषायाम् ' चळू' । २ करणं शरीरम् किंचित् प्रयाच्य मे मनो विशल्यं कुरु । ३ कान्त्या ।
सुतस्तयोस्तु ।
For Private & Personal Use Only
चरित्रम्सर्ग: ५
॥१५२॥
www.tinelibrary.org