________________
पुण्डरीक
॥१४९॥
४
१२
Jain Education
∞∞∞∞∞∞∞∞∞∞∞x
'विद्वानप्येष नैवाऽहितनिहितमना यो मनागप्यधात् स्यात् ( १ ) ॥ १११ ॥ त्वं पश्य कर्पूरतरौ वयस्य । कोदण्डदण्डं पुरतः प्रचण्डम् |
चच्चरस्तन्निजहस्तवाञ्छां संपूरयाम्येनमहं विमृद्य ॥ ११२ ॥
( टङ्कारो धनुषः - ) एवं गदित्वा मुदितोऽथ गत्वा नत्वा धनुः सोऽतनुवीर्ययुक्तः । प्रसृज्य हस्तेन तु कौन्तकान्तिं चकार दिव्यायुधमेतदूर्ध्वम् ॥ ११३ ॥
वामस्य हस्तस्य समर्प्य मध्यं सुदक्षिणत्वादपरस्य कोटिम् ।
दत्त्वा वरेsस्मिन् धनुषि प्रणम्रे गुणं समारोपयदेष विज्ञः ॥ ११४॥ [ ततश्चदुः पर्वतकन्दरा द्रुतपदं नेशुश्च सिंहा अपि, पेतुः कुम्भिघटा नदीषु च तटाद् यान्त्यो जवेनोत्कटाः । चक्रुः शब्दममूर्मिथच मिलितस्त्रीवत् तथाऽष्टौ दिशः - टङ्काराद् धनुषो मुखायितमतस्तैर्विश्वकर्णैरपि ॥ ११५ ॥ सज्यां समुत्तार्य ततः प्रसह्य सलमालोक्य वसन्तसेनम् ।
जगाद यस्य शरासनस्य योग्याः शराः स्युस्तदहो ! सुयोगः ॥ ११६॥ ( कुमारो तिरो भूव— ) यावत् तदुक्तस्य सुमन्त्रिपुत्रः प्रत्युत्तरं किंचिदपि प्रदत्ते । तावत् कुमारोऽमरशेखरोऽथ स चापहस्तोऽपि तिरोबभूव ॥ ११७ ॥
( तद्रवेषणाय मित्रप्रयास:-) निमेषमात्रात् क्व ययौ कुमारो विचारयन् मन्त्रिसुतोऽतिवेगात् । शब्दायमानः प्रतिवृक्षमेष बभ्राम कुत्राऽपि न तं ददर्श ॥ ११८ ॥
१ पु० अस्फुटम् । २ ' चल त्वरातो निज ' - इत्यपि पठितुं शक्यते । ३ 'कान्तकान्ति' उचितम् । ४ धनुषो मध्यम् । ५ अत्यतं वलिने धनुषि ६नादं चक्रुः। ७ शब्दं कुर्वाणः - आकारयन् ।
emational
For Private & Personal Use Only
चरित्रम्. सर्ग: ५
॥ १४९ ॥
www.jainelibrary.org