________________
चरित्रम्. सर्गः-५
SooozmomowoMOMom
00000000000MMOOOOO
पुण्डरीक-४ पीत्वा समीरं लघुरोमरन्धैः प्रीतः स तस्थौ तरुमूलमेत्य ।
राजाऽवतीर्याऽथ हयं स्वयं तं पानीयपानाय ततो निनाय ॥४७॥ संस्नाप्य सस्नौ च पपौ निपाय तरगराजं स नराधिराजः।
प्रीतः प्रमोदात् प्रशशंस विश्वमूलं जलं निर्मलतानुकूलम् ॥४८॥ ( नृपा ललनां ददर्श-) तीरस्थितो नीरविलोकनाय प्रसारयामास नृपोऽथ मेरे।
स निस्सरन्तीं सरसोऽपि रक्तां कयाऽपि युक्ता ललनां ददर्श ॥४९॥ संकेतयन्तीव रणाय काम वित्र सय तीव कुलस्य लज्जाम् ।
संतर्जयन्तीव तुलस्य सत्वं सा वामनेत्रा विकटः कटाक्षः ॥२०॥ पीनस्तनाभ्यामतिमोदकाभ्यां प्रलोभयन्तीव युवन्मनांसि ।
तस्योपकोयं कतिचित् पदानि गत्वा समालिङ्गय तहं पुरोऽस्थात् ॥ ५१ ॥ (युन्मम् ) निरीह चित्तं नृपतिं समेतं पालीवनालीषु हयं च बद्धवा ।
स्थितं समीरः शिशिरो मुदेव सहागतः स्नेहत आलिलिङ्ग ॥५२॥ ( तया ललनया प्रहितो दृतीमुखेन संदेश:-) सत्य दूती नृपति प्रणत्य प्रोवाच संयोज्य करी पुरस्था।
प्रसादमाधाय मयि क्षितीश ! वाक्यं समाकर्णय सावधानः ॥९॥ १ लघुभी रोमच्छिद्रः, समीरो-वायु पी-ते। २ मर्यादम् । ३ वर्तुलाकृत्या, पुष्ट्या च मोदकम् आतिक्रान्तान्याम-अथवा अतिहर्षप्रदाभ्याम् । ४ 'युवमनां स' भवेत् । ५ कायसमीपम् । ६ अग्रस्थिता।
ooooooooooomnook
mo
१॥१३९॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org