SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ पुण्डराक 8 सगे: ~ 2000wwwco0OOOKMANORomooora क्षान्तं क्षान्तं महाराज! स्वान्तं शान्तं यतो मम । यतस्व त्वं ततः स्वार्थ संकल्पं द्रुतमल्पय ॥२७॥ (मेघनादसंन्यास:-) ततो नृपोऽपि विज्ञाय निजायूर्वायुचञ्चलम् । मनो निजं नियम्याऽसौ संन्यासे संन्यवेशयत् । (सिद्धगिरेः कीर्तिः-) केवली वैरसिंहोऽथ तयोः संन्यस्तचित्तयोः । पुरः पुरा श्रुतां सिद्धगिरेः कीर्तिमकीर्तयत् ॥१ एवं ततः श्रवणतः शुद्धध्यानस्थयोस्तयोः। देही देहान्तरं गन्तुम्-ईहांचके नवं पुनः ॥३०॥ (त्रैलोक्यसुन्दरी सौधर्मस्वर्गे-) जीवः त्रैलोक्यसुन्दर्याः स्वर्ग सौधर्मनामनि । सौधर्मेन्द्रस्य भार्याऽभूद् नाम्ना सेयं मनोरमा ॥६१॥ (मेघनादो रत्नचूडो नृपः-) श्रीमेघनादजीवस्तु जःतस्वल्पभव स्थितिः। चन्द्रचूडस्य पुत्रोऽयं रत्नचूडनृपोऽभवत् ॥ ६२॥ ( देवी आगता-) पितर्यपगते प्राप्ते राज्ये रात्रौ च सोऽन्यदा । देवीं ददर्श शय्यास्थो विस्मितस्तां ततोऽवदत् ।। का त्वं सुन्दरि ! कस्याऽसि कामिनी किमिहाऽऽगता । इदं निवेद्यतां सर्व मदीयमनसो मुदे ॥६४। है हसित्वा सहसा साऽऽह राजन् ! जानासि किं न माम् । तव पूर्वभवस्याऽस्मि भार्या त्रैलोक्यसुन्दरी ॥३५॥2 (पूर्वभववेदी रत्नचूडो विरक्त:-) इति श्रुत्वा निजं पूर्व-भवं स्मृत्वा नृपोत्तमः । मुश्चन्नभूणि सोऽवोचत् संसारोद्विग्नमानसः ॥६६॥ पूर्वाम्नातेन नाम्ना ते जाति स्मृत्वा पुरातनीम् । राज्यं रजस्समं मन्ये विषवद् विषयानपि ॥३७॥ मया त्वयि पुरा प्रोक्तं स्नेहहीनं हि यद् वचः। तद् मे स्मरति हृदेहि येनाऽदाहि मनस्तव ॥६८॥ तदा त्वां गुरुपादान्ते नाऽहं दान्तेन चेतसा। क्षामये यदि तद् मे स्यादनन्तं भ्रमणं भवे ॥३९॥ १ अल्पं कुरु । २ नवं देहान्तरम् । ३ हृदयं दहति इति । ॥१२८॥ oonxxx Jain Education international For Private & Personal use only rww.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy