SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ चरित्रम् ॥११२॥ सर्गः-४ ४ 00000000000000000000000000000000000000000000000000000 एवमुक्त्वाऽऽसन मुक्त्वा श्रीरेत्याऽम्बरतः पुरः । नमत्सु तेषु भूते(पे)षु पुण्डूं चक्रे च चान्दनम् ॥ ४७॥ चतुरङ्गचमूचक्रस्वामिनीभिर्मुदा महत् । वर्धापनं प्रवधिष्णु दिव्याक्षतभरैः कृतम् ॥ ४८ ॥ दिवि दुन्दुभयो नेदुः प्रसेदुः सकला दिशः । रसस्फीतं जगुर्गीतं देव्यो दिव्याङ्गकान्तयः ॥ ४९ ॥ अङ्गनागानपीयूष-धाराभियोमपल्वलम् । भृतं ततोऽनृणीभूता भूम॑घोपैकृतेस्तदा ॥ ५० ॥ सत्प्रभावनया धर्मो न्यायो बुद्धथा यथा तथा । स तया सप्रभो रेजे पद्मया पद्मनाभवत् ॥ ५१ ॥ (कृतत्रैलोक्य-सुन्दरीपाणिग्रहणो मेघनादः प्रासादं समासदत् ) ततश्च पञ्चशब्देषु वाद्यमानेषु निर्भरम् । स्तुवत्सु कविवृन्देषु जयवादिषु बन्दिषु ॥ ५ ॥ ददानः स्वर्णदानानि राजहंसासनोऽम्बरे । सकलः कलभारूढः प्रौढभूपतिशोभितः ॥ ५३ ॥ अहंपविकया लोकनेत्रैः पीतप्रभामृतः । राजशेखरराजस्य प्रासादं स समासदत् ॥ ५४ ॥ मिष्टान्नैः प्राज्यपक्वान्नैः सारैः सरसभोजनैः । सुवर्ण-वज्राभरणैर्दुकूलैर्मृदुलैस्तथा ॥ ५५ ॥ महोत्सवे महीनाथान् राजा श्रीराजशेखरः । सचकार चमत्कारयुतचित्तोऽतिचित्रितः ॥५६॥ (यु-वि०) (मेघनादो भूमि विजेतुं चचाल-) चचाल सोऽचलां जेतुमथो राजकराजिकः । अग्रे तथा प्रतापोऽपि ग्रहराजकराजितः ॥ ५७ ॥ निस्वानर्धन निस्वानरूजितैमर्जुसेंजितैः । ढक्काभिर्भटहकाभिः शब्दाद्वैतं तदाऽभवत् ॥ ५८ ॥ व्यवजहुर्जनाः कार्य हृदिस्थं हस्तसंज्ञया । तदा बाधिर्यतोऽद्यापि ददते नोत्तरं दिशः ॥ ५९ ॥ इभकुम्भस्थलस्थानि सिन्दूरपटलान्यभुः । सूरेणाऽनेन विहिता किं संध्याऽरिग्रहापहा ॥ ६० ॥ १ भाषायाम्-'वधामपुं'। २ मेघः, मेघनादोऽपि । ३ प्रहराजस्य करैः किरणैः-अजितः-ततोऽपि विशिष्ट इति । ४ मर्जु:-चाटुवादी चारणः । 8 ५ भटानां हकाररूपाभिः । 9000000000000000000000000000000000000000000000000लय 8 ॥११॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy