SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक चरित्रम्. सर्गः-४ XoJOC WU van wan (त्रैलोक्यसुन्दरीपितुश्चिन्ता, स्वयंवरार्थ च भूपाह्वानम्-) चिन्ताकूपमयो भूपचित्तं तद्रूपदर्शनात् । पपात स तदाकृष्टिहेतो पानजूहवत् ॥१५॥ ॥१०७॥ पुरीपूर्वदिशो भागे स्वयंवरणमण्डये। समेष्यन्त्यद्यःसर्वेऽपि निमन्त्रितमहीभृतः॥ ९६ ॥ कुमारी सुप्रतीहारी मुखाद ज्ञात्वा नवं वरम् । सप्रेममालया पुष्पमालया केलयिष्यति ॥ ९७॥ 8 नवग्रहाभरत्नोद्यत्सकणे करकङ्कणे । इमे नीत्वाऽस्मि याम्यऽस्था भूषायै सिद्धिरस्तु ते ॥ ९८॥ इत्युदित्वोत्सुके याते तस्मिन् सोऽथ व्यचिन्तयत् । संमुख कङ्कणे श्रेष्ठं शकुन समभूद् मम ॥ ९९ ॥ (मेघनादः स्वयंवरणमण्डपं चचाल-) 8 माङ्गल्ये वचनं चैतत् भूषायै सिद्धिरस्त्विति । ततो यामीति निश्चित्य चचाल किल तद्दिशि ॥ १०० ॥ (स्वयंवरमण्डप:-) 8 विस्फुरत्स्वर्णकलसं रणत्किङ्किणितोरणम् । मुक्तावचूलमालाभिर्मालितं शालितं ध्वजः ॥ १॥ कर्पूरपूरकस्तरीमण्डलीमण्डितक्षितिम् । मौक्तिकस्वस्तिकाकीर्ण विस्तीर्ण तीर्णखार्णवम् ॥२॥ रमणीरमणीयं तमनणीयःश्रिया श्रितम् । मुमुदे मण्डपं दृष्ट्वा मण्डितं नरमण्डनः ॥ ३ ॥ (विशेषकम् ) (स्वयंवरागतनरपतिवर्णना-) येषां घनेषु सैन्येषु स्फूर्जदुर्जायितं रवेः। ज्वालाभिः खञ्जमालानामुद्यद्विच्छतायितम् ॥ ४॥ येषां सहीरैः कोटीरैः स्फुरत्सूर्यशतायितम् निर्मलैश्चात पत्रैश्च व्योम्नि सोमशतायितम् ॥ ५ ॥ यान् सुवर्णसवर्णाङ्गान् रत्नालंकृत्यलंकृतान् । राजन्यान् रोहणालीनान चलान स्वर्णाचलानिव ॥६॥ १ चित्ताकृष्टिः-चिन्ताकूपपतितचित्तस्य आकर्षणम् । २ सूर्याद्या नव ग्रहाः । ३ अनणीयो महत् । ४ विद्यच्छतमिव आचरितम् । ५ कोटीरा मुकुटाः । ६ चन्द्रशतवद् आचरितम्। ७ रोहणाख्ये पर्यते आलीनान् । OOOOOMoo00000000000000000000000000000000000000000 OOOO00000 ॥१०७॥ Jain Ed l For Private & Personal use only ainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy