________________
999
चरित्रम.
POORORocooc
पुण्डरीक
(देवीपूर्ववृत्तम्-) ॥१०॥
देव्यूचे मद्वचःपूरं कर्णपूरं कुरु स्थिरम् । कुमार ! सद्गुणाधार ! मन्मनःप्रमदप्रद ! ॥ ७३ ॥ सर्वराज्याधिदेवी मां विद्धि सिद्धिप्रदां सदा । एलाश्चतस्रः सैनस्य चतुरङ्गस्य देवताः ॥ ७४ ॥
सर्गः-४ (मेघनादसत्त्वपरीक्षार्थमेव एतत् देवीकृतम्-) ममात्मस्थानमासीन-देवीजिह्वाभिरागता । त्वद्दानसंभवा कीतिः कर्णाकर्ष चंकर्ष सा ॥ ७५ ॥ सदैन्या-ऽदैन्यरूपाभ्यां मृगनारी-मृगेन्द्रयोः। अथि क्षत्त्रं च सत्त्वं च वीक्षितं च परीक्षितम् ॥ ७६ ॥ तव मार्गविषण्णस्य निषण्णस्य तरोस्तले । देहाद दाध्यमहं प्रापं सुष्प्रापं तदा यतः ॥ ७७ ॥ जना ज्ञातमहत्वाय प्रायः स्वमुपकुर्वते । त्वं तु मामप्यविज्ञायो-पचके तद् भूशार्यते ॥ ७८ ॥
(मेघनादं सार्वभौमं करोमि-) योग्याः स्वल्पस्य राज्यस्य सेवका बहवोऽपि मे । अत्यद्भुतगुणं त्वां तु सार्वभौमं करोम्यहम् ॥ ७९ ॥ इत्यूचाना प्रसन्नास्या पृष्ठेऽस्य करपङ्कजम् । निवेश्योत्थापयांचवे राज्यदेवी कुमारकम् ॥ ८० ॥ माणिक्यमणिरत्नाव्यशिरःकोटीरमध्यतः। मन्दारपुष्पं हस्तेन नीत्वा तस्मै ददौ सुरी ॥ ८१ ॥ राजसूनो ! प्रस॒नेनाऽनेनाऽवश्यं वशंवदाः । भविष्यन्ति नृपाः सर्वे तभित्यूचेऽथ देवता ॥ ८२ ॥
( मेघनादप्रवास:--) राज्यदेवी तिरोभूता सा प्रभूताऽमरीवृता। सोऽप्यचालीदिलीऽऽलोककुतुहलरसाकुलः ॥ ८३ ॥
१ कृष्टवान् । २ मृगी सदैन्या, सिंहः-अदैन्यः । ३ तव देहाद् अहं एतादृशं दाढ्य प्रापम्-अर्थात् तव देहे अहम् एतादृशं दाढ्य निरीक्षितवती-यद् | अन्यत्र सुदुर्लभम् । ४ प्रभूतीभवति । ५ सर्वभूमीश्वरम्-सर्वमुख्यम् । ६ उक्तवती । ७ अस्य मेघनादस्य पृष्ठ । ८ मन्दार:-कल्पतरुः । ९ प्रसूनं पुष्पम् ।। १. इला-भूमिः ।
॥१०॥
Oxxxxxxooxxxxxxvc
Jain Educatio
lemahonal
For Private & Personal use only
w
ainelibrary.org