SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ पुण्डरीका ॥१०३॥ 0000000000ooooocondomonwerxnoondoNDOOO000000000 (प्रासादस्था देवी-) चरित्रम्. कुतूहलरसावेशस्फीतप्रीतविलोचनः । तदारे सुप्रभाधारे गत्वा मध्यं व्यलोकयत् ॥ ४९ ॥ एकया सुप्रतीहार्या छत्रधारिकयैकया । द्वाभ्यां चामरभृद्भ्यां च नारीभ्यां सेविता मुदा ॥ ५० ॥ सर्मः-४ आनन्दामृतकुल्येव कल्पवल्लीव जङ्गमा । सीमा सुदर्शनीयानां रेखा रूपभतां भुवि ।। ५१ ॥ १ अतीवदिव्यदेहाभिः देवीभिः परिता वृता । रत्नसिंहासनासीन। दुःखदीनानना भृशम् ॥ ५२ ॥ है सर्वदेवीश्वरी काचिद् विद्या स्मितचक्षुषा । नृसारेण कुमारेण ददृशे हर्षदा दृशोः ॥५३॥ -कलापकम् । (देव्या विषाद:-) दृष्ट्वा दुःखमुखीश्याममुखीमेनां सुमानसः । कामेकां मुमुखीमस्या दुःखहेतुं स पृष्टवान् ॥ ५४ ॥ मजुवाचमथोवाच सा तदा कर्णसाताम् । शृणु वृत्तं निजं चित्तं स्थिरीकृत्य सुकृत्यवित् ॥ ५५ ॥४ स्वामिन्याः कुलवृत्तान्तं स्वामिनी ज्ञापयिष्यति । दुःखहेतुं मया कथ्यमानमाकर्णयाऽभुतम् ॥ ५६ ॥ (विषादकारणम्-) अत्र यक्षवने हर्षात् क्रीडन्त्या पुष्पकन्कः । सखी प्रति स्वहस्तेन स्वामिन्या प्रेरितो यदा ॥ ७ ॥ । तदाऽङ्गलीयोऽप्यङ्गल्याश्चिन्तामणिविभूषितः । पाच दिव्याग्निसंपूर्णकुण्डे स सहसाऽविशत् ॥ ५८ ॥ । तस्य दिव्यस्य कुण्डस्य वह्निज्वाला कुलोचयः । न शाम्यति विना सत्वं सात्त्विकानां महात्मनाम् ॥ ५९॥ । मनःपुराद् विनिर्वास्य हर्षराजं म(हा)या हठात् । विषादो(त्थ)लनिषादोऽस्याः तदा प्रभृति तस्थिवान् ॥३०॥ १ समस्तमेतत् । २ सुदर्शनीयानां सीमा- नातः परा सुदर्शनीया । ३ नात: परा रूपवती । ४ आसीना-स्थिता । ५ कर्णसुखदाम् । ६ कन्दुको ४. हि भाषायाम् ' दडो' इति । ७ अङ्गलीपरिधेयः-चिन्तामाणः ८( ) एतचिह्नगतः पाठः कल्पितः शोधकेन । 20000000RAMANARoooooooooooooooooooooooooo0000 Jain Education mahonal For Private & Personal use only wwwjabelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy